This page has not been fully proofread.

दशकम्-८७]
 
कुचेलोपाख्यानवर्णनम् ।
 
त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टी सदाशिते त्वया ।
कृतं कृतं नन्वियतेति सम्भ्रमा रमा किलोपेत्य करं रुरोध ते ॥ ६॥
 
त्रपाजुप इति । त्रपाजुषः श्रीपतये पृथुकप्रसृतिप्रदानलज्जयावाङ्मुखाद्
बलात्कारेण पृथुकं प्रगृह्य त्वया मुष्टौ सदाशिते सति रमा श्रीः सम्भ्रमादुपेत्ये-
यता प्रसादेन कृतं कृतम् अलमलं ननु इतोऽधिकत्वत्प्रसादोचितसम्पत्सम्पादनेऽह-
मसमर्थेति ते करं रुरोध किल ॥ ६ ॥
 
भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् ।
बतापरेविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ ७ ॥
 
२९७
 
भक्तेष्विति । भक्तेषु उद्धवादिषु भक्तेन प्रीतियुक्तेन त्वया सः कुचेलः
मानितः पूजितः, बतेति खेदे, अपरेयुः श्चोभूते द्रविणं धनं विना ययौ । विचि-
त्ररूपः समक्षासमक्षादिभेदेन बहुप्रकारः ॥ ७ ॥
 
यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यो किमिति व्रजन्नसौ ।
त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ ८ ॥
 
यदीति । यद्यहमयाचिष्यं, तर्ह्यच्युतोऽदास्यत् । नाहं याचितवान् अच्यु-
तश्च न दत्तवानित्यर्थः । अतो भाया किं वदामीति चिन्तयन्नेव व्रजन् तवोक्तौ ली-
लायां स्मिते च मग्ना धीर्यस्य । मणिभी रत्नैः दीपं दीपनशीलम् आलयं निजभवनं
क्रमादपश्यत् ॥ ८ ॥
 
किं मार्गविभ्रंश इति भ्रमन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् ।
सखीपरीतां मणिहेमभूषितां बुवोध च त्वत्करुणां महाद्भुताम् ॥ ९ ॥
 
किमिति । किं मार्गविभ्रंशः पुनरपि द्वारकामागतवानहमिति क्षणकालं
भ्रमन् गृहं प्रविष्टः वल्लभां दृष्ट्वा महाद्भुतां त्वत्करुणामात्मसम्पदं तद्धेतुकां
बुबोध च ॥९॥
 
१. 'या पृथुकमु' क. ग. पाठः,