This page has been fully proofread once and needs a second look.

दशकम्-८७]
 
कुचेलोपाख्यानवर्णनम् ।
 
त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टी सटौ सकृदाशिते त्वया ।

कृतं कृतं नन्वियतेति सम्भ्रमाद् रमा किलोपेत्य करं रुरोध ते ॥ ६॥
 

 
त्रपाजु इति । त्रपाजुषः श्रीपतये पृथुकप्रसृतिप्रदानलज्जयावाङ्मुखाद्

बलात्कारेण पृथुकं प्रगृह्य त्वया[^१] मुष्टौ सकृदाशिते सति रमा श्रीः सम्भ्रमादुपेत्ये-

यता प्रसादेन कृतं कृतम् अलमलं ननु इतोऽधिकत्वत्प्रसादोचितसम्पत्सम्पादनेऽह-

मसमर्थेति ते करं रुरोध किल ॥ ६ ॥
 

 
भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् ।

बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ ७ ॥
 
२९७
 

 
भक्तेष्विति । भक्तेषु उद्धवादिषु भक्तेन प्रीतियुक्तेन त्वया सः कुचेलः

मानितः पूजितः, बतेति खेदे, अपरेद्युः श्चोवोभूते द्रविणं धनं विना ययौ । विचि-

त्ररूपः समक्षासमक्षादिभेदेन बहुप्रकारः ॥ ७ ॥
 

 
यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्योयां किमिति व्रजन्नसौ ।

त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ ८ ॥
 

 
यदीति । यद्यहमयाचिष्यं, तर्ह्यच्युतोऽदास्यत् । नाहं याचितवान् अच्यु-

तश्च न दत्तवानित्यर्थः । अतो भाया किं वदामीति चिन्तयन्नेव व्रजन् तवोक्तौ ली-

लायां स्मिते च मग्ना धीर्यस्य । मणिभी रत्नैः दीपं दीपनशीलम् आलयं निजभवनं

क्रमादपश्यत् ॥ ८ ॥
 

 
किं मार्गविभ्रंश इति भ्रमन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् ।

सखीपरीतां मणिहेमभूषितां बुवोबोध च त्वत्करुणां महाद्भुताम् ॥ ९ ॥
 

 
किमिति । किं मार्गविभ्रंशः पुनरपि द्वारकामागतवानहमिति क्षणकालं

भ्रमन् गृहं प्रविष्टः वल्लभां दृष्ट्वा महाद्भुतां त्वत्करुणामात्मसम्पदं तद्धेतुकां

बुबोध च ॥९॥
 

[^
]. 'या पृथुकमु' क. ग. पाठः,