This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १•
 
कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ १ ॥
 
कुचेलनामेति । सतीर्थ्यतां सब्रह्मचारिताम् । त्वदेकरागेण त्वयि प्रेम-
लक्षणया भक्त्या । प्रशमी जितेन्द्रियः ॥ १ ॥
 
समानशीलापि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।
कदाचिदूचे वत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ २ ॥
 
समानशीलेति । यद्यपि समानशीला, तथापि तथैव कुचेलवच्चित्तजयं
धनादिनिःस्पृहत्वं नो समेयुषी प्राप्तवती । वृत्तेर्जीवनोपायस्य लब्धये रमापतिः ।
सखेति निषेवौचित्यम् ॥२॥
 
इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
तदा त्वदालोकनकौतुकाद् ययौ वहन् पटान्ते पृथुकानुपायनम् ॥ ३ ॥
इतीरित इति । पटान्ते उपायनम् उपहारं बहन् द्वारकां ययौ ॥ ३ ॥
गतोऽयमाश्चर्यमयीं भवत्पुरीं गृहेषु शैव्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ ४ ॥
 
गत इति । आश्चर्यमयीम् अनल्पशिल्पां भवत्पुरीं द्वारकां गतोऽयं
कुचेलः तत्र गृहेषु द्व्यष्टसहस्रेषु मध्ये शैव्याया भवनं समेयिवान् प्राप्तः । तवाति-
सम्भावनया अतिसम्मानेन निर्वृतिं सुखमवापेति किं पुनरुच्यते ॥४॥
 
प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतम् ।
यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ ५॥
 
प्रपूजितमिति। अप वर्षर्त्तुव्यतिरिक्तकाले तत् सुमहद् वर्षममर्षि सो-
ढमिति यत्, तत् पुरा कृतं गुरुकुले कृतं कर्माकथयः ॥ ५॥
 
१. 'ति किं न निषेव्यते इत्यूचे उक्तवती ॥' क. पाठ:
 
२. 'तं क' क. पाठः.