This page has not been fully proofread.

दशकम् ८६]
 
भारतयुद्धवर्णनम् ।
 
२९५
 
युद्धादाविति । ऋच्छन् गच्छन् अप्रत्युत्थायिनः सूतस्य रोमहर्षणस्य
क्षयकृद् वधं कुर्वन् अथ मुनिवचनात् सुतं तत्पुत्रं तत्पदे मुनिदत्ते ब्रह्मासने ।
पर्वणि पर्वणि यज्ञघ्नं बल्वलं दैत्यं परिदलयन् निघ्नन् ॥ ९॥
 
संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या
 
तन्मुक्तं ब्राह्ममस्त्रं समदृत विजयो मौलिरत्नं च जहे ।
उच्छिन्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे
रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चऋपाणिर्विभो ! त्वम् ॥ १० ॥
 
संसुप्तेति । संसुप्तपञ्चद्रौपदेयक्षपणेने हतथियम् अविदितेतिकर्तव्यताकं
द्रौणिम् अश्वत्थामानमेत्य तेन अश्वत्थाम्ना मुक्तं ब्राह्ममस्त्रं त्वदुक्त्या विजयः
समहृत संहृतवान्, तस्य मौलिरत्नं च जैह्रे । पाण्डवानामुच्छित्यै मूलच्छेदाय
पुनस्तत्प्रयुक्ते अस्त्रे ब्रह्मास्त्रे उत्तरागर्भ विशति सति अङ्गुष्ठमात्रवपुश्चक्रपाणिः
सन् त्वमुत्तराया जठरमगाः किल ॥ १० ॥
 
अथ धर्मजभीष्मयोर्भुक्तिमुक्ती प्रदाय कृतकृत्यो भगवानित्याह-
धर्मोघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्म-
स्त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् ।
संयाज्याथाश्वमेधैस्त्रिभिरतिमाहितैर्धर्मजं पूर्णकामं
 
सम्माप्तो द्वारकां त्वं पवनपुरपते ! पाहि मां सर्वरोगात् ॥ ११ ॥
 
धर्मौघमिति। सः भूभारहरणे परमसुहृद् भीष्मः त्वां पश्यन् त्वद्भक्ते-
र्भूम्नैवानपायिन्या भक्त्या निष्कलब्रह्मभूयं निष्कलब्रह्मत्वं मोक्षं सपदि ययौ ।
अथाश्वमेघैः संयाज्य याजयित्वा ॥ ११ ॥
 
इति साल्वादिवधवर्णनं भारतयुद्धोपक्रमवर्णनं भारतयुद्धवर्णनं च
षडशीतितमं दशकं सैकम् ।
 
१. 'न हता धीर्नष्टा बुद्धिर्यस्य तं द्रौ' क. पाठ:.
'य । जठ' क. पाठ:. ४. 'क्षम्। सं' क.ग. पाठः,
 
२. 'हे । उच्छि' क. ग. पाठः.
 
३.