This page has not been fully proofread.

1
 
2
 
नारायणीये
 
एवं भगवद्गुणप्रस्ताबेन झटिति हृदयदेशसमुदितपरचिद्रसार्द्रभगवद्रूपार्द्रहृद
यतया रोमाञ्चितशरीरस्य मौलौ बद्धाञ्जलेर्बाष्पसंरुद्धवाक्प्रसरस्य कवेर्मुखतः सग-
गदानि कानिचित् पदानि निर्गच्छन्ति –
 
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
 
[स्कन्धः - १
 
त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीमं भजे ॥ १ ॥
सूर्यस्पर्धीति । एकीकृताने कादित्यबिम्बवदत्युज्ज्वल कनककिरीटयुक्तम् ।
ऊर्ध्वतिलकेति । ऊर्ध्वाग्रविन्यस्तकस्तूरीतिल कोल्लुसितफ।लडेशम् । कारुण्याकुलनेत्रं
भक्तजनविषयकरुणारसार्द्रतया मुहुरुन्मीलननिमीलनव्यापृतनयननलिनयुगलम् ।
आर्द्रहसितोल्लासं प्रेमार्द्रतयात्युल्लसित मन्दस्मितयुक्तम् । सुनासापुढं सुवर्णतिलकु
सुमवदतिसुन्दर श्रीनासिकोदरयुक्तम् । गण्डोद्यन्मकराभकुण्डलयुगं गण्डमण्डलाव-
लम्बमानमकररेखाङ्कितमणिकुण्डलयुग्मम् । कण्ठोज्ज्वलत्कौस्तुभं श्रीमत्कण्ठदेशभौ-
समानकौस्तुभरत्नम् । वनमाल्यहारपटलश्रीवत्सदीपं वनमालामुक्ताहारश्रीवत्सैः
दीप्रं दीपनशीलम् । त्वद्रूपं भजे सम्प्रति स्मरामीत्यर्थः ॥ १ ॥
 
केयूराङ्गद कङ्कणोत्तममहारत्ना गुलीयाङ्कित -
श्रीमद्भाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित् काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी-
मालम्बे विमलाम्बुजयुतिपदां मूर्ति तवार्तिच्छिदम् ॥ २ ॥
 
केयूरेति । अंसावलम्बिकेयूराख्याभरणविशेषाणां तदधस्ताद् धृतानामङ्ग-
दानां प्रकोष्ठस्थानां कङ्कणानां शिजवलयानां * चोत्तमैः श्रेष्ठैः प्रत्युप्तानि महान्ति
 
१. 'द्रीभूतह' क. पाठ:.
क. पाठ:.
 
२. 'ण' ख. पाठ:. ३. 'शोभमा' ख. पाठ:.
 
४. 'जे ॥'
 
• यस्मिान्नर्धार्यते, यश्च निर्धार्यते, यश्च निर्धारणहेतु: एतत्त्रितयस्यासन्निधानाद्
 
'न निर्धारण' इति न निषेध इति व्याख्यातुराशयः.