This page has been fully proofread once and needs a second look.

नारायणी
 
[स्कन्धः - १०
 
जिष्णोरिति । खिन्नं युद्धाङ्कद् विमुखं तमर्जुनं वीक्ष्य । नित्य एक इति । नित्य-

त्वादवध्यत्वम् एकत्वाद् वध्र्यहन्तृभेदाभावश्च । तत् तस्माद्, यस्मादवध्य आत्मा

तस्माद् धभियं भीष्मद्रोणादिवधे याधर्मभीस्तां प्रोज्य त्यक्ताझ्य त्यक्त्वा धर्म्यं क्षत्त्रिय-

धर्मादनपेतं युद्धं चरेत्युपदिश्य विश्वासार्थं विश्वरूपमैकात्म्यं दर्शयन् प्रकृतिं

गतसम्मोहताम् अनयथाः प्रापयामासिथ ॥ ६ ॥
 
२९४
 

 
भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते

नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे ।

निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली-

वाधावन् प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः॥७॥
 

 
भक्तोत्तंस इति । पार्थे भीष्मसायकैः प्राप्तसादे सञ्जातक्लेशे सति शस्त्रं न

गृह्णामीति प्रतिज्ञां विजहत् त्यजन् क्रोधशालीव अरिवरं सुदर्शनम् । शस्त्रं ग्राहया-

मीति तत्प्रतिज्ञां सत्यं कर्तुमेव, न त क्रोधशालित्वात् ॥ ७॥
 

 
भगदत्तप्रयुक्तनारायणास्त्राद्, जयद्रथवधप्रतिज्ञायाः, कर्णनागास्त्राच्चार्जुनं

रक्षितवानित्याह -
 
-
 
"
 

 
युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं

वक्षस्याधत्त चक्रस्थगितरविमहा: प्रार्दयन् सिन्धुराजम् ।

नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं

तत्रे तत्रापि पार्थेथं किमिव न हि भवान् पाण्डवानामकार्षीत् ॥ ८॥
 

 
युद्ध इति । चक्रेण स्थगितं तिरस्कृतं रविमहो येन । सिन्धुराजं जयद्रथम्।

कृत्तमौलिं खण्डितसकेशकिरीटम् । तत्रे ररक्ष । पाण्डवानां किमिवोपकारं भवान्

नाकार्षीत् ॥ ८ ॥
 

 
युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ-

न्
नप्रत्युत्थायिसूतक्षयकृद सुतं तत्पदे कल्पयित्वा ।

यज्ञघ्नं बल्वलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते
 

सम्माप्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥ ९ ॥