This page has been fully proofread once and needs a second look.

भारतयुद्धोपक्रमवर्णनम् ।
 
त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः

क्र
न्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्वेचेलमालामनन्ताम् ।

अन्नान्तप्राप्तशवंर्वांशजमुनिचकित द्रौपदीचिन्तितोऽथ
 

प्राप्तः शाकान्नमश्नन् मुनिग[^१]णमकृथास्तृप्तिमन्तं वनान्ते ॥ ४ ॥
 
दशकम् - ८६]
 
-
 
२९३
 

 
त्वयीति । अथ त्वयि इन्द्रप्रस्थाद् द्वारकामायाते सति कुरुसदसि जाते

द्यूतके सव्याजे द्यूते संयतायाः दुश्शासनेन गृहीतायाः चेलमालां वस्त्रपरम्पराम् ।

अन्नान्ते अन्नावसाने प्राप्तात् शर्वावांशजाद् दुर्वाससो मुनेश्चकितया शापशङ्कितया

द्रौपद्या चिन्तितस्तत्र प्राप्तः पात्रलग्नं शाकान्नम् अश्नन् मुनिगणं शिष्यवर्गसहितं

दुर्वाससं तृप्तिमन्तमकृथाः ॥ ४ ॥
 

 
युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः

कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत् पाण्डवार्थम् ।

भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण

व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ ५ ॥
 

 
युद्धोद्योग इति । अथ युद्धोद्योगे मिलति सति फल्गुनेन त्वमेको मन्त्रे

कार्यनिरूपणे वृतः समकालमागते कौरव्ये दत्तसैन्यः दुर्योधनाय दत्तयदुसैन्यः

पाण्डवार्थं पाण्डवानामर्धराज्यलब्धये दूत्यं दूतकर्म करोतीति तथा । भीष्म-

द्रोणादिभिर्मान्ये पूजनीये कौरवेण दुर्योधनेन धिक्कृते सति मुनिसदसि विश्वात्मकं

स्वं रूपं व्यावृण्वन् प्रकाशयन् ॥ ५ ॥
 

 
जिष्णोस्त्वं कृष्ण ! सूतः खलु समरमुखे बन्धुघाते दयालुं

खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे ! नित्य एकोऽयमात्मा ।

को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा

धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥ ६॥
 

 
१. 'जनम' क. पाठ:
 
ठः