2023-02-16 08:52:40 by ambuda-bot
This page has not been fully proofread.
२९२
नारायणीये
साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद् विमानं
विन्दन् सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।
प्रद्युम्नस्तं निरुन्धन्नखिलयदुर्भदैर्न्यग्रहीदुग्रवीर्य
तस्यामात्यं द्यु॒मन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ १ ॥
साल्व इति। भैष्मीविवाहे रुक्मिणीस्वयंवरे यदुबलेन यदुसेनया विजितः
पराजितः यादवोच्छेदप्रतिज्ञापूर्वकं प्रसादितात् चन्द्रचूडात् सौभाख्यं विमानं
विन्दन् त्वयि कुरून् वसति सति त्वत्पुरीं द्वारकाम् अभ्यभाङ्क्षीत् बभञ्ज ।
प्रद्युम्नस्तु तं साल्वं निरुन्धन् द्युमन्तं न्यग्रहीद् जधान ॥ १ ॥
तावत् त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं
सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत् ते ।
मायातातं व्यहिंसीदपि तव पुरतस्तत् त्वयापि क्षणार्ध
नाज्ञायीत्याहुरेके तदिदममतं व्यास एव न्यषेधीत् ॥ २ ॥
तावदिति । सौभेशंसाल्बम् । ते शार्ङ्ग धनुः अभ्रंशयत् त्याजयामास,
तब पुरतो मायानिर्मितं तातं वसुदेवं व्यहिंसीदपि । तदिदं साल्वमायामोहनमव-
मतमिति व्यास एव
"क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।
क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरो हरिः ॥"
(श्री. भा. स्क. १ अ. ७७. श्लो. ३१)
इति न्यषेधीत् ॥ २ ॥
[स्कन्धः - १०
क्षिप्त्वा सौभं गदाचूर्णितमुद्कनिधौ मङ्क्षु साल्वेऽपि चक्रे
णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद् गदां ते ।
कौमोदक्या हतोऽसावपि सुकृतनिधि वैद्यवत् मापदैक्यं
सर्वेषामेष पूर्व त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥३॥
क्षिप्त्वेति । ते तुभ्यं त्वां हन्तुं गदामभ्यमुञ्चत् । एषोऽवतारस्त्वयि
घृतमनसां मोक्षणाय ॥३॥
१. 'न्नि' क. ङ. पाठ:
२. 'प' ख. घ ङ. पाठ: