This page has been fully proofread once and needs a second look.

२९२
 
नारायणीये
 
साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद् विमानं
 

विन्दन् सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।

प्रद्युम्नस्तं निरुन्धन्न[^१]खिलयदुर्दैटैर्न्यग्रहीदुग्रवीर्
 
यं
तस्यामात्यं द्यु॒मन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ १ ॥
 

 
साल्व इति। भैष्मीविवाहे रुक्मिणीस्वयंवरे यदुबलेन यदुसेनया विजितः

पराजितः यादवोच्छेदप्रतिज्ञापूर्वकं प्रसादितात् चन्द्रचूडात् सौभाख्यं विमानं

विन्दन् त्वयि कुरून् वसति सति त्वत्पुरीं द्वारकाम् अभ्यभाङ्क्षीत् बभञ्ज ।

प्रद्युम्नस्तु तं साल्वं निरुन्धन् द्युमन्तं न्यग्रहीद् जधाघान ॥ १ ॥
 

 
तावत् त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं

सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत् ते ।

मायातातं व्यहिंसीदपि तव पुरतस्तत् त्वयापि क्षणार्
धं
नाज्ञायीत्याहुरेके तदिदमव[^२]मतं व्यास एव न्यषेधीत् ॥ २ ॥

 
तावदिति । सौभेशं साल्बम् । ते शार्ङ्गं धनुः अभ्रंशयत् त्याजयामास,
तब

तव
पुरतो मायानिर्मितं तातं वसुदेवं व्यहिंसीदपि । तदिदं साल्वमायामोहनमव-

मतमिति व्यास एव
 

 
"क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरो हरिः ॥"

(श्री. भा. स्क. १०. अ. ७७. श्लो. ३१)
 

 
इति न्यषेधीत् ॥ २ ॥
 
[स्कन्धः - १०
 

 
क्षिप्त्वा सौभं गदाचूर्णितमुद्कनिधौ मङ्क्षु साल्वेऽपि चक्रे
-
णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद् गदां ते ।

कौमोदक्या हतोऽसावपि सुकृतनिधि वैद्यवत् माश्चैद्यवत् प्रापदैक्यं

सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥३॥
 

 
क्षिप्त्वेति । ते तुभ्यं त्वां हन्तुं गदामभ्यमुञ्चत् । एषोऽवतारस्त्वयि

घृतमनसां मोक्षणाय ॥३॥
 

 
[^
]. 'न्नि' क. ङ. पाठ:
 
ठः
[^
]. 'प' ख. घ. ङ. पाठ:
 
ठः