This page has not been fully proofread.

दशकम् - ८५]
 
युधिष्ठिरराजसूयवर्णनम् ।
 
२९१
 
निवार्येति । निजपक्षगान् पाण्डवान् निवार्य त्वं दनुजदारिणा असुरशरीर-
भेदनशीलेन - स्वस्यारिणा सुदर्शनाख्येन चक्रेण विद्वेषिणः शिशुपालस्य शिरो
जद्दिषे अच्छिनः । जनुस्त्रितये हिरण्यकशिपुर रावणशिशुपालरूपे लब्धया ॥ ९ ॥
 
ततः सुमहिते त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया
मयार्पितसभामुखे स्थलजलभ्रमाद भ्रमीत् ॥ १० ॥
 
तत इति । ततः शिशुपालवधानन्तरं सुतरां महिते पूजिते । त्वया निरूढे
परिसमापिते श्रीकृष्णो जयति सर्वस्मादुत्कृष्टो भवति, स ईश्वरो यस्य बशे
स धर्मजो जयतीत्यालपन् जनो महाजनः स्वं स्वं भवनं ययौ । स कल्यंशः
सुयोधनस्तु सपत्नानां शत्रूणां पाण्डवानां श्रिया समृद्ध्या धुतम् असूयादिभि-
श्चलितं मनो यस्य । खाण्डवदाहे मयेनार्पिताया दत्तायाः सभाया मुखे स्थलजल-
भ्रमात् स्थलधिया जले पतनाद् जलधिया स्थले वस्त्रान्तग्रहणाच्च अभ्रमीत्
सम्भ्रान्तोऽभूत् ॥१०॥
 
तदा हसितमुत्थितं द्रुपदनन्दनाभीमयो-
रपाङ्गकलया विभो ! किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
 
जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ॥ ११ ॥
 
तदेति । तदा सुयोधनस्य जाड्ये सति द्रुपदनन्दनाभीमयोर्मुख उत्थितं
हसितं अपाङ्गकलया कटाक्षलेशेन किमप्युज्जृम्भयन् सातिशयं कुर्वन् तदेव
धराभरनिराकृतौ बीजं वपन् कारणत्वेन स्थापयन् ॥ ११ ॥
 
इति जरासन्धवधवर्णनं युधिष्ठिरराजसूयवर्णनं च
 
पञ्चाशीतितमं दशकं सैकम् ।
 
१. 'दै' ख. पाठ:.