This page has not been fully proofread.

२९.
 
नारायणीये
 
त्वमप्याय जगत्पते! द्विजपदावनेजादिकं
 
चकर्थ किसु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ६ ॥
 
प्रचक्रुषीति । प्रचॠषि प्रारब्धवति । अभृतका भृतका दासा भवन्तीति
भृतकीभवन्तः, प्रसन्नैः अनसूयकैः भृतकीभवद्भिः सकलै राजकैर्व्याकुलम् ॥ ६ ॥
 
ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं
विचार्य सहदेववागनुगतः स धर्मात्मजः ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
 
तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥ ७ ॥
 
[स्कन्धः - १०
 
तत इति । भगवान् श्रीकृष्णोऽग्रपूजामर्हतीति सहदेवस्य वाचमनुगतः
अनुसृतः विश्वभूतात्मने सर्वभूतानामात्मभूताय अग्र्यपूजाविधिं व्यधत्त । अतः
ससुरमानुषं चराचरात्मकं भुवनमेव तृप्तिं दधौ ॥ ७ ॥
 
ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासना-
दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८ ॥
 
तत इति । चेदिपः शिशुपालः । सभाजयति पूजयति । पशुपदुर्दुरूटं पशु-
पापशदम् । त्वाय त्वद्विषये दुर्वचोविततिं यथा कश्चिन्मुमूर्षुर्भुक्तं सर्वमुद्रमति,
तथोद्वमन् जल्पन् उदायुधः उद्धृतायुधः आसनादुदापतद् उत्थायाभ्ययात् । तदा
त्वत्परिभवेन पाण्डवाः अमुं समपतन् हन्तुमुद्यताः ॥ ८ ॥
 
निवार्य निजपक्षगानभिमुखस्य विद्वेषिण-
स्त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा ।
जनुत्रितयलब्धया सततचिन्तया शुद्धधी-
स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ९ ॥
 
* इकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहे वा' इति ।