This page has been fully proofread once and needs a second look.

२९.
 
नारायणीये
 
त्वमप्यायययि जगत्पते! द्विजपदावनेजादिकं
 

चकर्थ किसुमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ६ ॥
 

 
प्रचक्रुषीति । प्रचक्रुषि प्रारब्धवति । अभृतका भृतका दासा भवन्तीति

भृतकीभवन्तः, प्रसन्नैः अनसूयकैः भृतकीभवद्भिः सकलै राजकैर्व्याकुलम् ॥ ६ ॥
 

 
ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं

विचार्य सहदेववागनुगतः स धर्मात्मजः ।

व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
 

तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥ ७ ॥
 
[स्कन्धः - १०
 

 
तत इति । भगवान् श्रीकृष्णोऽग्रपूजामर्हतीति सहदेवस्य वाचमनुगतः

अनुसृतः विश्वभूतात्मने सर्वभूतानामात्मभूताय अग्र्यपूजाविधिं व्यधत्त । अतः

ससुरमानुषं चराचरात्मकं भुवनमेव तृप्तिं दधौ ॥ ७ ॥
 

 
ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो

सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।

इति त्वयि स दुर्वचोविततिमुद्वमन्नासना-

दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८ ॥
 

 
तत इति । चेदिपः शिशुपालः । सभाजयति पूजयति । पशुपदुर्दुरूटं पशु-

पापशदम् । त्वायवयि त्वद्विषये दुर्वचोविततिं यथा कश्चिन्मुमूर्षुर्भुक्तं सर्वमुद्रमति,

तथोद्वमन् जल्पन् उदायुधः उद्धृतायुधः आसनादुदापतद् उत्थायाभ्ययात् । तदा

त्वत्परिभवेन पाण्डवाः अमुं समपतन् हन्तुमुद्यताः ॥ ८ ॥
 

 
निवार्य निजपक्षगानभिमुखस्य विद्वेषिण-

स्त्वमेव [^*]जहिषे शिरो दनुजदारिणा स्वारिणा ।

जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी-

स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ९ ॥
 

 
[^
*] इकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहेह्रे वा' इति ।