This page has not been fully proofread.

२८८
 
नारायणीये
 
ततो मगधभूभृता चिरनिरोधसंक्लेशितं
शताष्टकयुतायुतद्वितयमीश! भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुषं प्राहिणो-
दयाचत स मागधक्षपणमेव किं भूयसा ॥ १ ॥
 
[स्कन्धः - १०
 
तत इति । ततः अनन्तरं मगधभूभृता जरासन्धेन गिरिगुहायां चिरनिरो-
धेन संक्लेशितं भूमीभृतां शताष्टकयुतायुतद्वितयम् अष्टशतोत्तरायुतद्वयं । ते तुभ्यम् ।
सः दूतः । किं भूयसा विज्ञापनेनं । मागधक्षपणं जरासन्धवधमेवायाचत ॥ १ ॥
यियासुरभिमागधं तद्नु नारदोदीरिताद्
युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
 
शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ २ ॥
 
यियासुरिति । अभिमागधं मागधमभिमुखीकृत्य यियासुः जिगमिषुः ।
उभयेति । मागधयुधिष्ठिरनिग्रहानुग्रहरूपोभय कार्यपर्याकुलः विरुद्धजयिनः शत्रु-
निग्रहपूर्वकं कर्तव्याद् अध्वराद् राजसूयाख्याद् उभयसिद्धिः मागधनिग्रहयुधि-
ष्ठिरेष्टसिद्धिरित्युद्धवे शशंसुषि उक्तवति सति यौधिष्ठिरीं पुरम् इन्द्रप्रस्थम्
इयेथ गतवान् ॥ २ ॥
 
अशेषदयितायुते त्वयि समागते धर्मजो
विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
 
भवन्तमयि ! मागधे महितवान् सभीमार्जुनम् ॥ ३ ॥
 
अशेषेति । त्वाय अशेषदयितायुते षोडशसहस्रपत्नीयुते समागते सति
धर्मजः भवदपाङ्गेन त्वत्कटाक्षेण संवर्धितैः वर्धितबलैः महीं कृत्स्नां विजित्य निरु
पमां श्रियं दिग्विजये लब्धं धनसञ्चयं वहन् अयि! भगवन्! अहह आश्चर्यमेतत्
भक्तदासायितं भक्तदासबदाचरन्तं मागधे जरासन्धे तज्जयार्थी महितवान् ॥ ३ ॥
 
१. 'नेति मा' क. ग. पाठ:.
२. 'नसि ॥ क. ग. पाठ. ३. 'ग्जयल' क. पाठा.
४. 'रिते भवन्त' क. ग. पाठ: ५. 'न्यवधार्थी' क. पाठः,