This page has been fully proofread once and needs a second look.

२८८
 
नारायणीये
 
ततो मगधभूभृता चिरनिरोधसंक्लेशितं

शताष्टकयुतायुतद्वितयमीश! भूमीभृताम् ।

अनाथशरणाय ते कमपि पूरुषं प्राहिणो-

दयाचत स मागधक्षपणमेव किं भूयसा ॥ १ ॥
 
[स्कन्धः - १०
 

 
तत इति । ततः अनन्तरं मगधभूभृता जरासन्धेन गिरिगुहायां चिरनिरो-

धेन संक्लेशितं भूमीभृतां शताष्टकयुतायुतद्वितयम् अष्टशतोत्तरायुतद्वयं । ते तुभ्यम् ।

सः दूतः । किं भूयसा विज्ञापनेनंन[^१] । मागधक्षपणं जरासन्धवधमेवायाचत ॥ १ ॥

 
यियासुरभिमागधं तद्नु नारदोदीरिताद्

युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।

विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
 

शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ २ ॥
 

 
यियासुरिति । अभिमागधं मागधमभिमुखीकृत्य यियासुः जिगमिषुः ।

उभयेति । मागधयुधिष्ठिरनिग्रहानुग्रहरूपोभय कार्यपर्याकुलः विरुद्धजयिनः शत्रु-

निग्रहपूर्वकं कर्तव्याद् अध्वराद् राजसूयाख्याद् उभयसिद्धिः मागधनिग्रहयुधि-

ष्ठिरेष्टसिद्धिरित्युद्धवे शशंसुषि उक्तवति सति यौधिष्ठिरीं पुरम् इन्द्रप्रस्थम्

इयेथ गतवान्[^
 
] ॥ २ ॥
 
अशेषदयितायुते त्वयि समागते धर्मजो

विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।

श्रियं निरुपमां वहन्नहह भक्तदासायितं
 

भवन्तमयि ! मागधे प्रहितवान् सभीमार्जुनम् ॥ ३ ॥
 

 
अशेषेति । त्वायवयि अशेषदयितायुते षोडशसहस्रपत्नीयुते समागते सति

धर्मजः भवदपाङ्गेन त्वत्कटाक्षेण संवर्धितैः वर्धितबलैः महीं कृत्स्नां विजित्य निरु
-
पमां श्रियं दिग्वि[^३]जये लब्धं धनसञ्चयं वहन् अयि! भगवन्! अहह आश्चर्यमेतत्

भक्तदासायितं भक्तदासदाचर[^४]न्तं मागधे जरास[^५]न्धे तज्जयार्थी मथं प्रहितवान् ॥ ३ ॥
 

 
[^
]. 'नेति मा' क. ग. पाठ:.
ठः
[^
]. 'नसि ॥ क. ग. पाठ. ठः
[^
]. 'ग्जयल' क. पाठा.
ठः
[^
]. 'रि<flag>ते</flag> भवन्त' क. ग. पाठ: ५. 'न्यवधार्थी' क. पाठः,
 

[^५]. 'न्यवधार्थं' क. पाठः