This page has not been fully proofread.

२८७
 
दशकम् - ८४]
 
समन्तपञ्चकयात्रावर्णनम् ।
 
तो भवदुपदेशात् परं तु भवद्विचिन्ता परमसुखैक्यमयी परमानन्दैकरसरूपा
समभवत् ॥ ८ ॥
 
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
त्वाय सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥९॥
 
मुनिवरेति । अथ तव पित्रा॑ वसुदेवेन दुरितशमाय दुष्कर्मनिवृत्तये अ-
नुष्ठेयानि शुभकर्माणि पृच्छ्यमानैरनुयुज्यमानैर्मुनिवरनिवहैर्व्यासनारदादिभिस्त्वयि
सकलशुभास्पदे पुत्रे सत्यॆप्यस्य शुभान्तरैः कर्मादिभिः किमिदं दुरितशमनप्रार्थन-
मित्युरुहसितैरपि तथापि तदासौ वसुदेवो याजितः यजनं कारितः ॥ ९ ॥
 
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ १० ॥
 
सुमहतीति । सुमहति उत्तमकल्पके यजने वितायमाने क्रियमाणे सति।
प्रमुदिता मित्रजना बन्धुवर्गा यस्मिन् तस्मिन् तैः सहैव नन्दादयो गोपा यदुननै-
र्महिताः सम्मानिताः अद्य इव इति त्रिमासमात्रं भवदनुषङ्गरसं भवत्सङ्गमसुखं
पुरा नन्दवज इव भेजुः अन्वभूवन् ॥ १० ॥
 
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर ! पाहि मां गदेभ्यः ॥ ११ ॥
 
व्यपगमसमय इति । व्यपगमसमये वियोगकाले प्रस्थाने राधां समेत्य
दृढमुपगूह्य बीतखेदां तदनुग्रहरू पोपगूहनेनैव त्यक्तविरहव्यथां निरीक्ष्य प्रमुदि-
तहृदयः पुरं द्वारवतीं प्रयातः । अतस्तादृशभक्तवात्सल्ययुक्तस्त्वं मां गदेभ्यः
पाहि ॥ ११ ॥
 
इति समन्तपञ्चकयात्रावर्णनं चतुरशीतितमं दशकं सैकम् ।
 
१. 'त्रा दु' क. पाठ:. २. 'कृतनि' क. पाठः ३. 'ये सक' ख. पाठः. ४. 'त्यस्य'
'ने' स. पाठ
५. 'के सह्रै' ख. पाठः, ६. 'नू तैः' क. पा. ७.
 
क. ग. पाठः.