This page has been fully proofread once and needs a second look.

२८७
 
दशकम् - ८४]
 
समन्तपञ्चकयात्रावर्णनम् ।
 
तो भवदुपदेशात् परं तु भवद्विचिन्ता परमसुखैक्यमयी परमानन्दैकरसरूपा

समभवत् ॥ ८ ॥
 

 
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
त्वाय

त्वयि
सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥९॥
 

 
मुनिवरेति । अथ तव पित्रा॑रा[^१] वसुदेवेन दुरितशमाय दुष्क[^२]र्मनिवृत्तये[^३] अ-

नुष्ठेयानि शुभकर्माणि पृच्छ्यमानैरनुयुज्यमानैर्मुनिवरनिवहैर्व्यासनारदादिभिस्त्वयि

सकलशुभास्पदे पुत्रे सत्यॆय[^४]प्यस्य शुभान्तरैः कर्मादिभिः किमिदं दुरितशमनप्रार्थन-

मित्युरुहसितैरपि तथापि तदासौ वसुदेवो याजितः यजनं कारितः ॥ ९ ॥
 

 
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।

यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ १० ॥
 

 
सुमहतीति । सुमहति उत्तमकल्पके[^५] यजने वितायमाने क्रियमाणे सति।

प्रमुदिता मित्रजना बन्धुवर्गा यस्मिन्[^६] तस्मिन् तैः सहैव नन्दादयो गोपा यदुनै-

र्महिताः सम्मानिताः अद्य श्व इति त्रिमासमात्रं भवदनुषङ्गरसं भवत्सङ्गमसुखं

पुरा नन्दव्रज इव भेजुः अन्वभूवन् ॥ १० ॥
 

 
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् ।

प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर ! पाहि मां गदेभ्यः ॥ ११ ॥
 

 
व्यपगमसमय इति । व्यपगमसमये वियोगकाले प्रस्थाने राधां समेत्य

दृढमुपगूह्य बीवीतखेदां तदनुग्रहरू पोपगूहनेनै[^७]व त्यक्तविरहव्यथां निरीक्ष्य प्रमुदि-

तहृदयः पुरं द्वारवतीं प्रयातः । अतस्तादृशभक्तवात्सल्ययुक्तस्त्वं मां गदेभ्यः

पाहि ॥ ११ ॥
 

 
इति समन्तपञ्चकयात्रावर्णनं चतुरशीतितमं दशकं सैकम् ।
 

 
१. 'त्रा दु' क. पाठ:. ठः
२. 'ष्कृतनि' क. पाठः
३. 'ये सक' ख. पाठः.
४. 'त्यस्य'
क. ग. पाठः
५. 'के सहै' ख. पाठः
६. 'न् तैः' क. पाठः
७.
'ने' स. पा
५. 'के सह्रै' ख. पा
ठः, ६. 'नू तैः' क. पा. ७.
 
क. ग. पाठः.