This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्ध:- १.
 
तदन्विति । चिरतरविरहेण आतुराः अङ्गरेखाः कृशशरीराणि यासां ताः ।

अन्वयासीः अनुगतः ॥ ४ ॥
 
२८९
 

 
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्विबिनीनाम् ।

अतिरसपरिमुक्तकञ्चुलीके परिचयहुहृद्यतरे कुचे न्यलैपीःषीः ॥ ५ ॥
 

 
सपदीति । प्रमुषितो मानो यस्मिन् तादृशं हृद् यासाम् । अतिरसेन

अतिशयितेनान्योन्यानुरागेण परिमुक्ता यथाकथञ्चिदपनीता कञ्चुलीका गात्रिका

यस्मात् । परिचयहृद्यतरे प्रागनुभूतस्य प्रत्यभिज्ञायमानतया कौतुकविशेषजनके

कुचे न्यलैषीः क्षीरनीराख्यपरिरम्भणसुखमन्वभूः ॥ ५ ॥
 

 
रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् ।

इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिये ॥६॥
 

 
रिपुजनकलहैरिति । मे मम पुनः पुनः समुपगतै रिपुजनकलहैः इयती

अतिमहती विलम्बना कालक्षेपोऽभूदिति वचनपुरस्सरं कृतपरिरम्भणे त्वाय द्राग-

तिविवशा झटिति त्यक्तमाना निलिल्ये त्वदैक्यमिवान्वभूत् ॥ ६ ॥
 

 
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्ववोबोधम् ।

परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ ७ ॥
 

 
अपगतेति । तदा रहसि ताः परिरम्भणादिभिरपगत विरहव्यथा विधाय

अहं परमसुखचिदात्मकः परमानन्दबोधस्वरूपः सर्वेषामात्मान्तर्यामी च अतो वो

मद्विरहः शोकावकाशश्च परमार्थतो नास्त्येवेति वश्चेतसि स्फुटमुदयतु निश्चयात्मि-

का बुद्धिर्मदनुग्रहात् स्यादेवेति तत्त्वबोधं ददाथ ॥ ७ ॥
 

 
सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।

समभवदमुतः परं तु तासां परमसुखैक्यमयी भवाद्विचिन्ता ॥ ८ ॥
 

 
सुखरसेति । तासां गोपस्त्रीणां पुरा उद्धवोपदेशैः उद्भवधवोमुखेन कृतैरुपदेशै :
शैः
सुखर सेनाल्पीयसा परिमिश्रितो वियोगो विरहदुःखं किमपि किञ्चिदभवत् । अमु
 
-