This page has been fully proofread once and needs a second look.

दशकम् - ८४ ]
 
समन्तपश्चक
यात्रावर्णनम् ।
 
२८५
 
तेषामधिक्षेपवाक्यैर्जातेन
 
तत्र च कुरुभिर्नियमितं बद्धं श्रुत्वा कुरुभिर्विरोधो मास्त्विंविति सान्त्वनार्थी यातः

तेषामधिक्षेपवाक्यैर्जातेन
रोषेणोद्धृतं करिनगरं हस्तिनपुरं येन सः रामः साम्बं

मोचयामास । तदानीम् अग्रजपरिभवे त्वं यदुष्टपृतनां नामुचः ते पाण्डवेयैर्घात्या

इति । एवं दुर्बोधा लीला यस्य ॥ १० ॥
 

 
इति पौण्ड्रकवधवर्णनं काशिपुरीदाहवर्णनं बलभद्रप्रतापवर्णनं च

त्र्यशीतितमं दशकम् ।
 

 
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।

यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ १ ॥
 

 
क्वचिदिति । तपनोपरागकाले सूर्यग्रहणकाले पुरि द्वारकायां कृतवर्माण-

मनिरुद्धं च निदधदूद् रक्षणार्थं निक्षिप्य ॥ १ ॥
 

 
बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये ।

द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ २ ॥
 

 
बहुतरेति । तत्र समन्तपञ्चके तीर्थतोयं पुनन् तीर्थतोयस्य पापशोधकत्व-

मुत्पादयन् । तदपि बहुतरजनताहिताय तीर्थस्नायिजनानुग्रहाय द्विजगणेभ्यः परि
-
मुक्तो दत्तो वित्तराशिर्येन स त्वं मित्रैर्बन्धुभिः सममिलथाः सम्मिलितोऽभूः ॥२॥
 

 
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।

तदुदितभवदाहतित्रहृति<flag>त्र</flag>कारैरतिमुमुदे सममन्वभामिनीभिः ॥ ३ ॥
 

 
तवेति । द्रुपदसुता तव दयिताजनैः रुक्मिण्यादिभिर्मिलिता तदुदितैः

त्वद्दयिताभिरुदितैः भवत्कर्तृकात्माहरणप्रकारैः सप्तगोवृषबन्धनादिरूपैः अन्यभा-

मिनीभिः सुभद्रादिभिः सममतिमुमुदे ॥ ३ ॥
 

 
तदनु च भगवन् ! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।

चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ ४ ॥