This page has not been fully proofread.

दशकम् - १]
 
भगवन्महिमानुवर्णनम् ।
 
१५
 
तभाग्याः जन्मजन्मान्तरार्जितपुण्यसञ्चयेनाधिगतभक्तिज्ञानमार्गाः चेतना जीवाः
उच्चैरारमन्ति अतिशयेन मोदन्ते । त्वं चात्माराम एवं, चस्त्वर्थः, त्वं तु त्वय्येव
रमसे, तव चान्येषां च त्वमेव निरतिशयसुखभूत इत्यर्थः । इति अतो हेतोः
अतुलानां लोकोतराणां गुणानामाधार ! आश्रयभूत ! हे शौरे ! श्रीकृष्ण !
ते तुभ्यं नमः नमस्करोमीत्यर्थः ॥ ९ ॥
 
षड्गुणाश्रयताया अप्यसाधारणतामाह
 
ऐश्वर्य शङ्करादीश्वराविनियमनं विश्वतेजोहराणां
 
तेजस्संहारि वीर्य विमलमपि यशो निस्पृहैचोपगीतम् ।
अङ्गासङ्गा सदा श्रीरखिलविदसि न कापि ते सङ्गवार्ता
 
तद् वातागारवासिन् ! मुरहर ! भगवच्छब्दमुख्याश्रयोऽसि ॥ १० ॥
ऐश्वर्यमिति । हे वातागारवासिन् ! मुरहर! ते तवैश्वर्य शङ्करादीनामीश्व-
राणां विनियमनं तत्तदधिकारप्रवर्तकम् । किञ्च, तव वीर्य विश्वेषां सर्वेषां तेजः
पराक्रमं हरन्तीति विश्वतेजोहराः श्रीशङ्करादयः, तेषां तेजः प्रभावं संहर्तुं शील-
मस्येति तथा । वक्ष्यति च 'मुहुस्तावच्छक्रम् ' ( दश. ८२. लो. ९) इत्यादि । तव
यशोऽपि विमलं पापशोधकम् । निस्पृहैर्मुक्तैरप्युपगीतं, त्वच्चरिताकृष्टचेतस्तया
तैर्वर्णितमित्यर्थः । श्रीश्च सदा अङ्गासङ्गा तव वक्षःस्थलमाश्रित्यैवास्ते । अखिलवि-
दसीति । अखिलं स्वमात्मानं स्वमायां तत्कार्यं च वेत्तीत्यखिलविदसि त्वम् ।
अन्ये त्वां तत्त्वतो न जानन्तीति भावः । क्वापि विषये । ते सङ्गस्य वार्तापि कथापि
न श्रूयत इत्यर्थः । तत् तस्मात् यस्मादैश्वर्ययशः श्रीवीर्यज्ञानासङ्गतानां भगव-
च्छब्दवाच्यानां त्वय्यतिशयेन वृत्तिस्तस्मादित्यर्थः । भगवच्छब्दस्य मुख्या-
श्रयो वाच्यार्थो भवसि, अन्येषु भगवच्छब्दस्य लाक्षणिकी वृत्तिरि-
त्यर्थः ॥ १० ॥
 
."
 
इति भगवन्महिमानुवर्णनं प्रथमं दशकम्
 
१. 'वेत्यर्थः' क. पाठ:. २. 'सि । अ' ख. पाठः. ३. 'येषु ते' क. पाठः,