This page has not been fully proofread.

दशकम् - १]
 
भगवन्महिमानुवर्णनम् ।
 
१५
 
तभाग्याः जन्मजन्मान्तरार्जितपुण्यसञ्चयेनाधिगतभक्तिज्ञानमार्गाः चेतना जीवाः

उच्चैरारमन्ति अतिशयेन मोदन्ते । त्वं चात्माराम एवंव[^१], चस्त्वर्थः, त्वं तु त्वय्येव

रमसे, तव चान्येषां च त्वमेव निरतिशयसुखभूत इत्यर्थः । इति अतो हेतोः

अतुलानां लोकोत्तराणां गुणानामाधार ! आश्रयभूत ! हे शौरे ! श्रीकृष्ण !

ते तुभ्यं नमः नमस्करोमीत्यर्थः ॥ ९ ॥
 

 
षड्गुणाश्रयताया अप्यसाधारणतामाह
 
--
 
ऐश्वर्यं शङ्करादीश्वराविनियमनं विश्वतेजोहराणां
 

तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् ।

अङ्गासङ्गा सदा श्रीरखिलविदसि न काक्वापि ते सङ्गवार्ता
 

तद् वातागारवासिन् ! मुरहर ! भगवच्छब्दमुख्याश्रयोऽसि ॥ १० ॥

 
ऐश्वर्यमिति । हे वातागारवासिन् ! मुरहर! ते तवैश्वर्यं शङ्करादीनामीश्व-

राणां विनियमनं तत्तदधिकारप्रवर्तकम् । किञ्च, तव वीर्यं विश्वेषां सर्वेषां तेजः

पराक्रमं हरन्तीति विश्वतेजोहराः श्रीशङ्करादयः, तेषां तेजः प्रभावं संहर्तुं शील-

मस्येति तथा । वक्ष्यति च 'मुहुस्तावच्छक्रम् ' ( दश. ८२. लो. ९) इत्यादि । तव

यशोऽपि विमलं पापशोधकम् । निस्पृहैर्मुक्तैरप्युपगीतं, त्वच्चरिताकृष्टचेतस्तया

तैर्वर्णितमित्यर्थः । श्रीश्च सदा अङ्गासङ्गा तव वक्षःस्थलमाश्रित्यैवास्ते । अखिलवि-

दसीति । अखिलं स्वमात्मानं स्वमायां तत्कार्यं च वेत्तीत्यखिलविदसि[^२] त्वम् ।

अन्ये त्वां तत्त्वतो न जानन्तीति भावः । क्वापि विषये[^३] । ते सङ्गस्य वार्तापि कथापि

न श्रूयत इत्यर्थः । तत् तस्मात्, यस्मादैश्वर्ययशः श्रीवीर्यज्ञानासङ्गतानां भगव-

च्छब्दवाच्यानां त्वय्यतिशयेन वृत्तिस्तस्मादित्यर्थः । भगवच्छब्दस्य मुख्या-

श्रयो वाच्यार्थो भवसि, अन्येषु भगवच्छब्दस्य लाक्षणिकी वृत्तिरि-

त्यर्थः ॥ १० ॥
 
."
 

 
इति भगवन्महिमानुवर्णनं प्रथमं दशकम्
 

 
[^
]. 'वेत्यर्थः' क. पाठ:.
[^
]. 'सि । अ' ख. पाठः.
[^
]. 'येषु ते' क. पाठः,
 

 
.