This page has not been fully proofread.

२८४
 
नारायणीये
 
अभ्यापतत्यमितधाम्नि भवन्महात्रे
हा हेति विद्रुतवती खेलु घोरकृत्या ।
रोषात् सुदक्षिणमदक्षिणचेष्टितं तं
पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥ ८ ॥
 
अभ्यापततीति । अमितम् अपरिच्छिन्नं धाम तेजो यस्य, परिमित-
धाम्नामग्न्यादितेजसामपि तेजः प्रदत्वादमितं धामैव वा, 'यदपि च परमं सर्व-
धाम्नां च धाम' इति वचनात् तस्मिन् भवन्महास्त्रे सुदर्शनोख्ये अभ्यापत-
ति कृत्यामभिधावति सति हा हेत्याक्रन्दन्ती विद्रुतवती । आभिचारस्याब्रह्मण्ये
सफलतायाः शर्वेणानुगृहीतत्वात् तदनादरेण ब्रह्मण्यदेवे श्रीकृष्णे प्रयोगाददक्षिण-
चेष्टितं सुदक्षिणं रोषात् पुलोष । काशिपुरीं सुदक्षिणराजधानीमपि अधाक्षीद्
 
ददाह ॥ ८ ॥
 
"
 
[स्कन्धः- १०
 
स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा
 
तब तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।
नरकसचिवो देशक्लेशं सृजन् नगरान्तिके
 
झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ ९॥
 
स खल्विति । रक्षोघाते रावणवधे कृतोपकृतिः श्रीरामपक्षीयः, तथापि
तव कलया अंशभूतेन श्रीबलभद्रेण मृत्युं मृतिं प्राप्तुं खलतां तव वैरितां गतः
नरकसचिवः भौमस्य सखा त्वन्नगरान्तिके देशानां क्लेशम् उपद्रवं सृजन् उत्पा-
दयन् हलिना तलेन करतलेन आहतः अद्धा सम्यग् अनायासेन पपात मृतः ॥९॥
 
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां
 
यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः ।
ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं
तं त्वां दुर्बोधलीलं पवनपुरपते ! तापशान्त्यै निषेवे ॥ १० ॥
साम्बमिति । कौरव्यपुत्रीं सुयोधनसुतां लक्षणां साम्बः स्वयंवरे हृतवान् ।
१. 'किले' कं. पॉठ:. २. 'ने अ' क. ग. पाठ:. ३. 'क्ष्म' कं. पाठः.