This page has been fully proofread once and needs a second look.

२८४
 
नारायणीये
 
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे

हा हेति विद्रुतवती खेख[^१]लु घोरकृत्या ।

रोषात् सुदक्षिणमदक्षिणचेष्टितं तं

पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥ ८ ॥
 

 
अभ्यापततीति । अमितम् अपरिच्छिन्नं धाम तेजो यस्य, परिमित-

धाम्नामग्न्यादितेजसामपि तेजः प्रदत्वादमितं धामैव वा, 'यदपि च परमं सर्व-

धाम्नां च धाम' इति वचनात्, तस्मिन् भवन्महास्त्रे सुदर्शनोना[^२]ख्ये अभ्यापत-

ति कृत्यामभिधावति सति हा हेत्याक्रन्दन्ती विद्रुतवती । आभिचारस्याब्रह्मण्ये

सफलतायाः शर्वेणानुगृहीतत्वात् तदनादरेण ब्रह्मण्यदेवे श्रीकृष्णे प्रयोगाददक्षिण-

चेष्टितं सुदक्षिणं रोषात् पुलोष । काशिपुरीं सुदक्षिणराजधानीमपि अधाक्षीद्
 

ददाह ॥ ८ ॥
 
"
 
[स्कन्धः- १०
 

 
स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा
 
तब

तव
तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।

नरकसचिवो देशक्लेशं सृजन् नगरान्तिके
 

झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ ९॥
 

 
स खल्विति । रक्षोघाते रावणवधे कृतोपकृतिः श्रीरामपक्षीयः, तथापि

तव कलया अंशभूतेन श्रीबलभद्रेण मृत्युं मृतिं प्राप्तुं खलतां तव वैरितां गतः

नरकसचिवः भौमस्य सखा त्वन्नगरान्तिके देशानां क्लेशम् उपद्रवं सृजन् उत्पा-

दयन् हलिना तलेन करतलेन आहतः अद्धा सम्यग् अनायासेन पपात मृतः ॥९॥
 

 
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां
 

यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः ।

ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं

तं त्वां दुर्बोधलीलं पवनपुरपते ! तापशान्त्यै निषेवे ॥ १० ॥

 
साम्बमिति । कौरव्यपुत्रीं सुयोधनसुतां लक्ष[^३]णां साम्बः स्वयंवरे हृतवान् ।

 
[^
]. 'किलेल' क. पाठः
[^२]. 'ने अ' क. ग. पाठः
[^३]. 'क्ष्म
' कं. पॉठ:. २. 'ने अ' क. ग. पाठ:. ३. 'क्ष्म' कं. पाठः.