This page has not been fully proofread.

काशीपुरदाहवर्णनम् ।
 
शीर्ष चकर्तिथ ममर्दिथ चास्य सेनां
 
वन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ ४ ॥
 
दशकम् - ८३]
 
कालायसमिति । कालायसमयं निजसुदर्शनम् अस्यतः प्रयुञ्जतः
अस्य पौण्ड्रकस्य । कालानलोत्करकिरेण संहारकार्यङ्गारवर्षिगा । चकर्तिथ कृत्त-
बान् । तन्मित्रस्य काशिपस्य शिरः काश्यां पतितं चकर्थ अकरोः ॥ ४ ॥
 
जाड्येन बालकगिरापि किलाहमेव
 
श्रीवासुदेव इति रूढमतिश्चिरं सः ।
सायुज्यमेव भवदैक्यधिया गतोऽभूत्
 
को नाम कस्य सुकृतं कथमित्यवेयात् ॥ ५ ॥
 
२८३
 
जाड्येनेति । जाड्येन मूढताहेतुकेन परप्रत्ययत्वेन बालकानां मन्दभियां
बाचा गिरा रूढा स्थिरा मतिर्यस्य ॥ ५ ॥
 
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः
शर्वे प्रपूज्य भवते विहिताभिचारः ।
कृत्यानलं कमपि वाणरणातिभीतै-
भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ ६ ॥
 
काशीश्वरस्येति । कथश्चन वृतैः भूतैः समं सह कृत्यानलम् आभिचारकु-
ण्डोत्थितं मूर्तिमन्तमग्निम् अभ्यमुञ्चद् विससर्ज ॥ ६ ॥
 
तालप्रमाणचरणामखिलं दहन्तीं
 
कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः ।
द्यूतोत्सवे किमपि नो चलितो विभो! त्वं
 
पार्श्वस्थमाशु विससर्जिय कालचक्रम् ॥ ७ ॥
 
तालप्रमाणेति । पौरैः कथितो विज्ञापितोऽपि द्यूतोत्सवे द्यूतक्रीडाकौतुके
नो चलितः न विमुखो जातः, किन्तु पार्श्वस्थं चक्रं हस्तसंज्ञया विससर्जिथ ॥७॥
 
'र्यनोत्कर' क. पाठः.