This page has been fully proofread once and needs a second look.

काशीपुरदाहवर्णनम् ।
 
शीर्ष
र्षं चकर्तिथ ममर्दिथ चास्य सेनां
 

न्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ ४ ॥
 
दशकम् - ८३]
 

 
कालायसमिति । कालायसमयं निजसुदर्शनम् अस्यतः प्रयुञ्जतः

अस्य पौण्ड्रकस्य । कालानलोत्करकिरेण संहारकार्य[^१]ङ्गारवर्षिगाणा । चकर्तिथ कृत्त-
बा

वा
न् । तन्मित्रस्य काशिपस्य शिरः काश्यां पतितं चकर्थ अकरोः ॥ ४ ॥
 

 
जाड्येन बालकगिरापि किलाहमेव
 

श्रीवासुदेव इति रूढमतिश्चिरं सः ।

सायुज्यमेव भवदैक्यधिया गतोऽभूत्
 

को नाम कस्य सुकृतं कथमित्यवेयात् ॥ ५ ॥
 
२८३
 

 
जाड्येनेति । जाड्येन मूढताहेतुकेन परप्रत्ययत्वेन बालकानां मन्दभिधियां
बा

वा
चा गिरा रूढा स्थिरा मतिर्यस्य ॥ ५ ॥
 

 
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः

शर्वेवं प्रपूज्य भवते विहिताभिचारः ।

कृत्यानलं कमपि वाणरणातिभीतै-

र्
भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ ६ ॥
 

 
काशीश्वरस्येति । कथश्चन वृतैः भूतैः समं सह कृत्यानलम् आभिचारकु-

ण्डोत्थितं मूर्तिमन्तमग्निम् अभ्यमुञ्चद् विससर्ज ॥ ६ ॥
 

 
तालप्रमाणचरणामखिलं दहन्तीं
 

कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः ।

द्यूतोत्सवे किमपि नो चलितो विभो! त्वं
 

पार्श्वस्थमाशु विससर्जि कालचक्रम् ॥ ७ ॥
 

 
तालप्रमाणेति । पौरैः कथितो विज्ञापितोऽपि द्यूतोत्सवे द्यूतक्रीडाकौतुके

नो चलितः न विमुखो जातः, किन्तु पार्श्वस्थं चक्रं हस्तसंज्ञया विससर्जिथ ॥७॥
 

 
[^१]
'र्यनोनलोत्कर' क. पाठः.