This page has not been fully proofread.

२८२
 
नारायणाये
 
रामेऽथ गोकुलगते प्रमदाप्रसक्ते
हूतानुपेतयमुनादमने मदान्धे ।
स्वैरं समारमति सेवकवादमूढो
 
दूतं न्ययुङ्क्त तव पौण्डकवासुदेवः ॥ १ ॥
 
राम इति । प्रमदासु गोपीपु प्रसक्ते लोले । हूताम् आहूतां तथाप्यनुपेता-
मनागतां यमुनां दमयतीति तथा । वारुणीमदिरामदान्धे रामे स्वैरं समारमति
सति त्वं जगदीश्वर इति सेवकवादैर्मूढः पौण्डकवासुदेवः तव दूतं न्ययुङ्क्त
नियुक्तवान् ॥ १ ॥
 
नारायणोऽहमवतीर्ण इहास्मि भूमौ
 
धत्से किल त्वमपि मामकलक्षणानि ।
उत्सृज्य तानि शरणं व्रज मामिति त्वां
दूतो जगाढ़ सकलैर्हसितः सभायाम् ॥ २ ॥
 
नारायण इति । त्वमपि मामकलक्षणानि श्रीवत्सकौस्तुभादीनि धत्से
किल, तान्युत्सृज्य मां शरणं व्रजेति सभायां जगाद ॥ २ ॥
 
दूतेऽथ यातवति यादवसैनिकस्त्वं
यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् ।
तापेन बक्षसि कृताङ्गमनल्पमूल्य-
श्री कौस्तुभं मकरकुण्डलपीतचेलम् ॥ ३ ॥
 
[स्कन्धः - १०
 
दूत इति । यादवाः सैनिका यस्य स त्वं काशीं यातः पौण्डकीयं वपुर्द-
दार्शथ । तापेन तप्तलोहन्यासेन कृतः श्रीवत्साको यस्य । अनल्पमूल्यः अनल्पेन
मूल्येन क्रीत्वानीय कण्ठे बद्धः श्रीकौस्तुभो यस्य ॥ ३॥
 
कालायसं निजसुदर्शनमस्यतोऽस्य
कालानलोत्करकिरेण सुदर्शनेन ।
 
'के भोगलो' क. ग. पाठ:
 
२. इदं पदं क. ग. पुस्तकयोर्न दृश्यते ।