This page has been fully proofread once and needs a second look.

२८२
 
नारायणाये
 
रामेऽथ गोकुलगते प्रमदाप्रसक्ते

हूतानुपेतयमुनादमने मदान्धे ।

स्वैरं समारमति सेवकवादमूढो
 

दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ १ ॥
 

 
राम इति । प्रमदासु गोपीपुषु प्रसक्ते[^१] लोले । हूताम् आहूतां तथाप्यनुपेता-

मनागतां यमुनां दमयतीति तथा । वारुणीमदिरामदान्धे रामे स्वैरं समारमति

सति त्वं जगदीश्वर इति सेवकवादैर्मूढः पौण्ड्रकवासुदेवः तव दूतं न्ययुङ्क्त

नि[^२]युक्तवान् ॥ १ ॥
 

 
नारायणोऽहमवतीर्ण इहास्मि भूमौ
 

धत्से किल त्वमपि मामकलक्षणानि ।

उत्सृज्य तानि शरणं व्रज मामिति त्वां

दूतो जगाढ़ सकलैर्हसितः सभायाम् ॥ २ ॥
 

 
नारायण इति । त्वमपि मामकलक्षणानि श्रीवत्सकौस्तुभादीनि धत्से

किल, तान्युत्सृज्य मां शरणं व्रजेति सभायां जगाद ॥ २ ॥
 

 
दूतेऽथ यातवति यादवसैनिकस्त्वं

यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् ।

तापेन क्षसि कृताङ्मनल्पमूल्य-

श्री कौस्तुभं मकरकुण्डलपीतचेलम् ॥ ३ ॥
 
[स्कन्धः - १०
 

 
दूत इति । यादवाः सैनिका यस्य स त्वं काशीं यातः पौण्ड्रकीयं वपुर्द-

दार्शथ । तापेन तप्तलोहन्यासेन कृतः श्रीवत्साङ्को यस्य । अनल्पमूल्यः अनल्पेन

मूल्येन क्रीत्वानीय कण्ठे बद्धः श्रीकौस्तुभो यस्य ॥ ३॥
 

 
कालायसं निजसुदर्शनमस्यतोऽस्य

कालानलोत्करकिरेण सुदर्शनेन ।
 

 
[^१].
'केक्ते भोगलो' क. ग. पाठ:
 
ठः
[^
]. इदं पदं क. ग. पुस्तकयोर्न दृश्यते ।