This page has not been fully proofread.

नृगस्य शापमोक्षवर्णनम् ।
 
वाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद् वितन्वन्
निर्लनाशेषदोषं सपदि बुबुधुपा शङ्करेणोपगीतः ।
तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
 
मुक्त्वा तद्दत्तमानो निजपुरमगम: सानिरुद्धः सहोषः ॥ ८ ॥
बाणमिति । दर्प एक एव दोषः तस्माद् निर्लनाः छिन्ना: अशेषा
दोषो बाहवः दोषा गर्वादयश्च यस्य । बुबुबुषा आत्मानं विष्णुमध्येकमधिजग्मुषा
उपगीतः तः स्तुतः । तस्य श्रीशङ्करस्य वाचा । उभयतो विष्णुशङ्करयोरपि निर्भयं
तत्प्रियं शिवभक्तम् । तद्दत्तमानः बाणेन दत्तपारिबर्हः । निजपुरं द्वारकाम् ॥ ८ ॥
 
दशकम् - ८२]
 
मुहुस्तावच्छकं वरुणमजयो नन्दहरणे
 
यमं बालानीतौ दवदहनपानेऽनिलसखम् ।
विधिं वत्सस्तेये गिरिशमिह वाणस्य समरे
विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ९ ॥
 
२८१
 
मुहुरिति । मुहुः इन्द्रयागपारिजातापहरणखाण्डवदाहादौ शक्रमजयः ।
तत् तस्मात् ते तव अयमवतारः विश्वेभ्यो देवेभ्य उत्कर्षोऽस्यास्तीति तथा
अत एव जयति सर्वावतारेभ्य उत्कृष्टो भवति ॥ ९॥
 
द्विजरुषा क्रुकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर ! पाहि माम् ॥ १० ॥
 
द्विजरुषेति । द्विजस्य दत्तापहरणजनितया रुपा तत्कार्येण शांपेन निरुद्-
ककूपस्थं कृकलासवपुर्धरं नृगनृपं त्रिदिवालयं स्वर्गम् आपयन् प्रापयन् । न विद्यते
उत्तमो य(स्मादि १ स्या इ)त्यनुत्तमाम् । नृगस्य ब्राह्मणगवापहरणेन कुकलासत्वा-
पत्तेस्तद्दानमाहात्म्येन स्वर्गप्राप्तेश्च नृगमुखेन निवेदनपुरस्सरमुपदिशन् ॥ १० ॥
 
इति उषापरिणयवर्णनं बाणासुरयुद्धवर्णनं नृगस्य शापमोक्षवर्णनं च
यशीतितमं दशकम् ।
 
१. 'र्प एव' क. पाठः २ 'रं त्रि' क. ग. पाठ:.
 
+ चत्वारोऽस्य बाहवः शिष्टा इति उभयत इत्यस्य पूर्वत्रैवान्वयो युज्यते ।