2023-02-16 08:52:38 by ambuda-bot
This page has not been fully proofread.
ज्वराभावं
२८०
नारायणी ये
पुरीपाल: शैलप्रियदुहितुनाथोऽस्य भगवान्
समं भूतत्रातैर्यदुवलमशङ्कं निरुरुधे ।
महाप्राणो बाणो झटिति युयुधानेन युयुधे
गुहः प्रधुम्नेन त्वमपि पुरन्त्रा जघटिषे ॥ ५ ॥
[ स्कन्ध - १०
पुरीपाल इति । अस्य बाणस्य पुरीपालः शैलस्य हिमवतः प्रियदुहितुः
पार्वत्याः नाथो भगवान् । महाप्राणः महाबलः । त्वमपि पुरहन्त्रा श्रीशङ्करेण सह
जघटिषे अयुध्यथाः ॥ ५ ॥
निरुद्धाशेपास्त्रे मुमुहुषि तत्रास्त्रेण गिरिशे
द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
परास्कन्दत् स्कन्दः कुसुम शरवाणेच सचिवः
स कुम्भाण्डो भाण्डं नवमिव बलेनाशु विभिदे ॥ ६ ॥
निरुद्धेति । निरुद्धानि प्रत्यस्त्रैः शमितानि अशेषास्त्राणि यस्य । तव
मोहनास्त्रेण मुमुहुषि मोहं गते च सति । द्रुताः पलायिताः । प्रमथिताः पीडिताः ।
कुसुमशरस्य प्रद्युम्नस्य वाणैः स्कन्दः परास्कन्दत् प्रतिनिवृत्तः । बाणस्य सचिवः
कुम्भाण्डो नवं जलपूर्ण मृण्मयं भाण्डमिव विभिदे भिन्नः ॥ ६ ॥
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ वाणे
व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुपां विज्वरं स ज्वरोऽगात्
प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ७ ॥
चापानामिति । बाणे व्यर्थे विरथे याते ज्वरपतिर्माहेश्वरंज्वरः त्वज्ज्वरेण
समेतो युध्यन् अशनैर्झटिति अज्वरि सन्तप्तोऽभूत् । अथ माहेश्वरो ज्वरः ज्ञानी
त्वां स्तुत्वा त्वत्प्रसादात् तव चरितजुषां विज्वरं ज्वराभवं दत्त्वानुगृह्य स माहेश्वरो
ज्वरोऽगात् । यद्वा सज्वरः सन्तापयुक्तः । यतोऽन्तर्हदि ज्ञानवन्तोऽपि बहुतमसा
तमोगुणाधिक्येन रौद्रचेष्टाः क्रूरकर्माणो हि रौद्राः रुद्रपार्षदाः ॥ ७ ॥
१. 'रस्त्व' क. ग. पाठ:.