This page has been fully proofread once and needs a second look.

ज्वराभावं
 
२८०
 
नारायणी ये
 
पुरीपाल: शैलप्रियदुहितुतृनाथोऽस्य भगवान्

समं भूतत्व्रातैर्यदुवलमशङ्कं निरुरुधे ।

महाप्राणो बाणो झटिति युयुधानेन युयुधे
 

गुहः प्रधुद्युम्नेन त्वमपि पुरन्त्रा जघटिषे ॥ ५ ॥
 
[ स्कन्ध - १०
 

 
पुरीपाल इति । अस्य बाणस्य पुरीपालः शैलस्य हिमवतः प्रियदुहितुः

पार्वत्याः नाथो भगवान् । महाप्राणः महाबलः । त्वमपि पुरहन्त्रा श्रीशङ्करेण सह

जघटिषे अयुध्यथाः ॥ ५ ॥
 

 
निरुद्धाशेपाषास्त्रे मुमुहुषि तत्रावास्त्रेण गिरिशे
 

द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।

परास्कन्दत् स्कन्दः कुसुम शरवाणेणैश्च सचिवः
 

स कुम्भाण्डो भाण्डं नवमिव बलेनाशु विबिभिदे ॥ ६ ॥
 

 
निरुद्धेति । निरुद्धानि प्रत्यस्त्रैः शमितानि अशेषास्त्राणि यस्य । तव

मोहनास्त्रेण मुमुहुषि मोहं गते च सति । द्रुताः पलायिताः । प्रमथिताः पीडिताः ।

कुसुमशरस्य प्रद्युम्नस्य वाणैः स्कन्दः परास्कन्दत् प्रतिनिवृत्तः । बाणस्य सचिवः

कुम्भाण्डो नवं जलपूर्णं मृण्मयं भाण्डमिव विभिदे भिन्नः ॥ ६ ॥
 

 
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ वाबाणे

व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।

ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुपां विज्वरं स ज्वरोऽगात्

प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ७ ॥
 

 
चापानामिति । बाणे व्यर्थे विरथे याते ज्वरपतिर्माहेश्वरंर[^१]ज्वरः त्वज्ज्वरेण

समेतो युध्यन् अशनैर्झटिति अज्वरि सन्तप्तोऽभूत् । अथ माहेश्वरो ज्वरः ज्ञानी

त्वां स्तुत्वा त्वत्प्रसादात् तव चरितजुषां विज्वरं ज्वराभवं दत्त्वानुगृह्य स माहेश्वरो

ज्वरोऽगात् । यद्वा सज्वरः सन्तापयुक्तः । यतोऽन्तर्हृदि ज्ञानवन्तोऽपि बहुतमसा

तमोगुणाधिक्येन रौद्रचेष्टाः क्रूरकर्माणो हि रौद्राः रुद्रपार्षदाः ॥ ७ ॥
 

 
[^
]. 'रस्त्व' क. ग. पाठ:.
 
ठः