This page has not been fully proofread.

दशकम् - ८२]
 
बाणासुरयुद्धवर्णनम् ।
 
२७९
 
प्रद्युम्न इति । तव कला विष्ण्वंशः तं शम्बरं हत्वा रत्या भार्यया सह
निजपुरमाप्तः प्रद्युम्नो रुक्मिकन्यां रुक्मवतीम् अवहद् उपयेमे । तत्रानिरुद्धोद्वाहे
द्यूतवैरात् छलेन बलभद्रे पराजयमारोप्याधिक्षेपाद् मुसलिना रुक्मी न्यबधि हतः।
अपिशब्देन कालिङ्गस्य दन्ताः पाटिता इत्यप्युक्तम् ॥ १ ॥
 
वाणस्य सा वलिसुतस्य सहस्रवाहो -
महेश्वरस्य महिता दुहिता किलोपा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्व
 
स्वप्मेऽनुभूय भगवन् ! विरहातुराभूत् ॥ २ ॥
 
बाणस्येति । माहेश्वरस्य शिवभक्तस्य । महिता श्लाघ्या ॥ २ ॥
 
योगिन्यतीव कुशला खलु चित्रलेखा
 
तस्याः सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुपया विदितं निशाया-
मानेष्ट योगवलतो भवतो निकेतात् ॥ ३ ॥
 
योगीति । योगिनी अणिमाद्यष्ठैश्चर्यवती अतीव कुशला चित्रकर्मा-
दिकलाकौशलवती च । तत्र विलिखितेषु तथा विदितम् अयमेव स्वमदृष्ट इति,
अनिरुद्धं भवतो निकेताद् द्वारकायाः आनेष्ट आनीतवती ॥ ३ ॥
 
कन्यापुरे दयितया सुखमारमन्तं
चैनं कथञ्चन ववन्धुपि शर्ववन्धौ ।
श्रीनारदोक्ततदुदन्तदुरन्तरोपै-
स्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ४ ॥
 
कन्यापुर इति । दयितया उपया समम् आरमन्तं क्रीडन्तम् । एनम् अनि-
रुद्धं शर्वबन्धौ बाणे बबन्धुषि नागपाशेन बद्धं कुर्वति सति श्रीनारदोक्तात् तदु -
दन्ताद् अनिरुद्धबन्धनरूप।द् वृत्तान्ताद् दुरन्तोऽनवधी रोषो येषां तैर्यदुभिः सह
त्वं तस्य बाणस्य शोणिता॑ांख्यं नगरं न्यरुन्धाः आवृणोः ॥ ४ ॥
 
१. 'तपुराख्यं' क, ख. पाठः,