This page has been fully proofread once and needs a second look.

दशकम् - ८२]
 
बाणासुरयुद्धवर्णनम् ।
 
२७९
 
प्रद्युम्न इति । तव कला विष्ण्वंशः तं शम्बरं हत्वा रत्या भार्यया सह

निजपुरमाप्तः प्रद्युम्नो रुक्मिकन्यां रुक्मवतीम् अवहद् उपयेमे । तत्रानिरुद्धोद्वाहे

द्यूतवैरात् छलेन बलभद्रे पराजयमारोप्याधिक्षेपाद् मुसलिना रुक्मी न्यधि हतः।

अपिशब्देन कालिङ्गस्य दन्ताः पाटिता इत्यप्युक्तम् ॥ १ ॥
 
वा

 
बा
णस्य सा वलिसुतस्य सहस्रवाबाहो -

र्मा
हेश्वरस्य महिता दुहिता किलोपा ।

त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्
 
वं
स्वप्मेनेऽनुभूय भगवन् ! विरहातुराभूत् ॥ २ ॥
 

 
बाणस्येति । माहेश्वरस्य शिवभक्तस्य । महिता श्लाघ्या ॥ २ ॥
 

 
योगिन्यतीव कुशला खलु चित्रलेखा
 

तस्याः सखी विलिखती तरुणानशेषान् ।

तत्रानिरुद्धमुया विदितं निशाया-

मानेष्ट योगलतो भवतो निकेतात् ॥ ३ ॥
 

 
योगीति । योगिनी अणिमाद्यष्ठैश्र्यवती अतीव कुशला चित्रकर्मा-

दिकलाकौशलवती च । तत्र विलिखितेषु तथाया विदितम् अयमेव स्वप्नदृष्ट इति,

अनिरुद्धं भवतो निकेताद् द्वारकायाः आनेष्ट आनीतवती ॥ ३ ॥
 

 
कन्यापुरे दयितया सुखमारमन्तं

चैनं कथञ्चन ववन्धुपि शर्ववन्धौ ।

श्रीनारदोक्ततदुदन्तदुरन्तरोपै-

स्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ४ ॥
 

 
कन्यापुर इति । दयितया उया समम् आरमन्तं क्रीडन्तम् । एनम् अनि-

रुद्धं शर्वबन्धौ बाणे बबन्धुषि नागपाशेन बद्धं कुर्वति सति श्रीनारदोक्तात् तदु -

दन्ताद् अनिरुद्धबन्धनरूप।पाद् वृत्तान्ताद् दुरन्तोऽनवधी रोषो येषां तैर्यदुभिः सह

त्वं तस्य बाणस्य शोणिता॑ांता[^१]ख्यं नगरं न्यरुन्धाः आवृणोः ॥ ४ ॥
 

 
[^
]. 'तपुराख्यं' क,. ख. पाठः,