This page has not been fully proofread.

२७८
 
नारायणीये
 
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तहिया ।
हृत्वा कल्पतरु रुपाभिपतितं जित्वेन्द्रमभ्यागम-
स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ९ ॥
 
[स्कन्धः - १०
 
भौमापाहुतकुण्डलमिति । भौमेनेन्द्रादपहृतं कुण्डलम् अदितेस्तन्मात्रे
दातुम् । स्त्रीषु शच्युवेश्यादिषु रूपातिशयेन दत्ता हीर्यया तथा दयितया समं
सह महितः पूजितः । तत् पारिजातहरणेनेन्द्रस्य परिभवजननं श्रीमददोष ईदृशो
यथेन्द्रस्येति व्याख्यातुं प्रकाशयितुमेवाक्कथाः कृतवान् ॥ ९ ॥
 
कल्प सत्यभामाभवनभुवि सृजन यष्टसाहस्रयोषाः
स्वीकृत्य प्रत्यगारं विहितवपुलीलयन् केलिभेदैः ।
आश्चर्यान्नारदालोकित विविधगतिस्तत्र तत्रापि गेहे
भूयः सर्वासु कुर्वन् दश दश तनयान पाहि वातालयेश ! ॥ १० ॥
 
कल्पनुमिति । सत्यभामाया भवनभुवि गृहोद्याने सृजन् स्थापयन् प्रत्य-
गारं विहितबहुवपुः भवनं प्रति भवनं प्रति रूपभेदेन स्थित्वा यष्टसाहस्रयोषाः
युगपत् स्वीकृत्य परिणीय आश्चर्यात् तदाश्चर्य श्रुत्वा नारदेनालोकिता विविधा
गतयो गार्हस्थ्यभेदा यस्य ॥ १० ॥
 
इति सुभद्राहरणवर्णनं श्रीकृष्णस्य महिष्यन्तरपरिग्रहवर्णनं
नरकासुरवधादिवर्णनं च
 
एकाशीतितमं दशकम् ।
 
प्रद्युम्नो रौक्मिणेयः स खलु तत्र कला शम्बरेणाहृतस्तं
हत्वा रत्या सहाप्तो निजपुरमहरद् रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद् रोचनां रुक्मिपौत्रीं
 
तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि धूतवैरात् ॥ १ ॥