This page has been fully proofread once and needs a second look.

२७८
 
नारायणीये
 
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं

शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तहिया ।

हृत्वा कल्पतरुरुं रुपाभिपतितं जित्वेन्द्रमभ्यागम-

स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ९ ॥
 
[स्कन्धः - १०
 

 
भौमापाहुहृतकुण्डलमिति । भौमेनेन्द्रादपहृतं कुण्डलम् अदितेस्तन्मात्रे

दातुम् । द्युस्त्रीषु शच्युवेर्वश्यादिषु रूपातिशयेन दत्ता हीर्यया तथाह्रीर्यया तया दयितया समं

सह महितः पूजितः । तत् पारिजातहरणेनेन्द्रस्य परिभवजननं श्रीमददोष ईदृशो

यथेन्द्रस्येति व्याख्यातुं प्रकाशयितुमेवाक्ककृथाः कृतवान् ॥ ९ ॥
 

 
कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषाः

स्वीकृत्य प्रत्यगारं विहितबहुवपुलीर्लालयन् केलिभेदैः ।

आश्चर्यान्नारदालोकित विविधगतिस्तत्र तत्रापि गेहे

भूयः सर्वासु कुर्वन् दश दश तनयान पाहि वातालयेश ! ॥ १० ॥
 

 
कल्पनुद्रुमिति । सत्यभामाया भवनभुवि गृहोद्याने सृजन् स्थापयन् प्रत्य-

गारं विहितबहुवपुः भवनं प्रति भवनं प्रति रूपभेदेन स्थित्वा द्व्यष्टसाहस्रयोषाः

युगपत् स्वीकृत्य परिणीय आश्चर्यात् तदाश्चर्यं श्रुत्वा नारदेनालोकिता विविधा

गतयो गार्हस्थ्यभेदा यस्य ॥ १० ॥
 

 
इति सुभद्राहरणवर्णनं श्रीकृष्णस्य महिष्यन्तरपरिग्रहवर्णनं

नरकासुरवधादिवर्णनं च
 

 
एकाशीतितमं दशकम् ।
 

 
प्रद्युम्नो रौक्मिणेयः स खलु तत्र कला शम्बरेणाहृतस्तं

हत्वा रत्या सहाप्तो निजपुरमहरद् रुक्मिकन्यां च धन्याम् ।

तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद् रोचनां रुक्मिपौत्रीं
 

तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि धूद्यूतवैरात् ॥ १ ॥