This page has not been fully proofread.

नरकासुरवधादिवर्णनम् ।
 
२७७
 
पार्थाद्यैरिति । पार्थाद्यैः
 
भीमदुर्योधनमागधादिभिरण्यकृतलवनम् अशक्य-
च्छेदनं तोयमात्रे केवलं जले प्रतिबिम्बरूपेणाभिलक्ष्यं शफरं मत्स्यात्मकं लक्षम् ।
अवृथाः वृतवान् ॥ ५ ॥
 
दशकम् - ८१]
 
-
 
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
वहन्नके भामामुपवनमिवारातिनगरम् ।
विभिन्दन् दुर्गाणि त्रुटितपृतनाशोणितरसैः
 
पुरं तावत् प्राग्ज्योतिषमकुरुथा: शोणितपुरम् ॥ ६ ॥
 
स्मृतायातमिति । स्मृतायातं स्मरणमात्रेण प्राप्तम्। अरातेर्भीमस्य नगरम् ।
दुर्गाणि गिरिशस्त्रजलाग्न्यनिलादिमयानि विभिन्दन् त्रुटितानां शस्त्रकृत्तानां
पृतनानां शोणितरसै: रुधिरवैः प्राग्ज्योतिषाख्यं पुरं शोणितं रक्तवर्णमकु-
रुथाः ॥ ६ ॥
 
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुपतत्
 
स चक्रे चक्रेण प्रदलितशिरा मञ्जु भवता ।
चतुर्दन्तैर्दन्तावलपतिभिरिन्धानसमरं
रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णनरकम् ॥ ७ ॥
 
मुर इति । मुरो नाम दैत्यः जलधिवनमध्यात् समुद्रजलान्तर्भागात् ।
सः मुरः भवता चक्रेण प्रदलितशिराश्चक्रे कृतः । इन्धाने प्रवृद्धे समरे नरकं
भौमं तीर्णनरकं संसारोत्तीर्णम् ॥ ७ ॥
 
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
 
गजं चैकं दत्त्वा प्रजिघायथ नागान् निजपुरीम् ।
खलेनावद्धानां स्वगतमनसां षोडश पुनः
 
सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ८ ॥
 
स्तुत इति । खलेन भौमेन आवद्धानां स्त्रीणां षोडशसहस्त्राणि विपुलं
धनराशिं चतुर्दन्तान् नागानपि च निजपुरीं प्रजिघयिथ प्राहिणोः ॥ ८ ॥
 
१. 'लज' क. पाठः.