This page has been fully proofread once and needs a second look.

नरकासुरवधादिवर्णनम् ।
 
२७७
 
पार्थाद्यैरिति । पार्थाद्यैः
 
भीमदुर्योधनमागधादिभिरण्प्यकृतलवनम् अशक्य-

च्छेदनं तोयमात्रे केवलं[^१] जले प्रतिबिम्बरूपेणाभिलक्ष्यं शफरं मत्स्यात्मकं लक्षम् ।

अवृथाः वृतवान् ॥ ५ ॥
 
दशकम् - ८१]
 
-
 

 
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो

वहन्नङ्के भामामुपवनमिवारातिनगरम् ।

विभिन्दन् दुर्गाणि त्रुटितपृतनाशोणितरसैः
 

पुरं तावत् प्राग्ज्योतिषमकुरुथा: शोणितपुरम् ॥ ६ ॥
 

 
स्मृतायातमिति । स्मृतायातं स्मरणमात्रेण प्राप्तम्। अरातेर्भीभौमस्य नगरम् ।

दुर्गाणि गिरिशस्त्रजलाग्न्यनिलादिमयानि विभिन्दन् त्रुटितानां शस्त्रकृत्तानां

पृतनानां शोणितरसै: रुधिरद्रवैः प्राग्ज्योतिषाख्यं पुरं शोणितं रक्तवर्णमकु-

रुथाः ॥ ६ ॥
 

 
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुपतत्
 

स चक्रे चक्रेण प्रदलितशिरा मञ्जुङ्क्षु भवता ।

चतुर्दन्तैर्दन्तावलपतिभिरिन्धानसमरं

रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णनरकम् ॥ ७ ॥
 

 
मुर इति । मुरो नाम दैत्यः जलधिवनमध्यात् समुद्रजलान्तर्भागात् ।

सः मुरः भवता चक्रेण प्रदलितशिराश्चक्रे कृतः । इन्धाने प्रवृद्धे समरे नरकं

भौमं तीर्णनरकं संसारोत्तीर्णम् ॥ ७ ॥
 

 
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
 

गजं चैकं दत्त्वा प्रजिघायघयिथ नागान् निजपुरीम् ।

खलेनाद्धानां स्वगतमनसां षोडश पुनः
 

सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ८ ॥
 

 
स्तुत इति । खलेन भौमेन आद्धानां स्त्रीणां षोडशसहस्त्राणि विपुलं

धनराशिं चतुर्दन्तान् नागानपि च निजपुरीं प्रजिघयिथ प्राहिणोः ॥ ८ ॥
 

 
[^
]. 'लज' क. पाठः.