2023-02-16 08:52:37 by ambuda-bot
This page has not been fully proofread.
२७६
नारायणीये
तत्र क्रुद्धं वलमनुनयन् प्रत्यगास्तेन सार्धं
शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ २ ॥
भद्रामिति । भद्रां सुभद्रां भवतोऽवरजां कनीयसीम् । कुहनामस्करी
कपटयतिः । तत्र सुभद्राहरणे । तेन अर्जुनेन सार्धम् । प्रत्यगाः गतवान् ॥ २ ॥
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहत्विा
तां कालिन्द्रीं नगरमगमः खाण्डवप्रीणिताग्निः ।
भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं
राज्ञां मध्ये सपाद जहू
[ स्कन्धः - १०
मित्रविन्दामवन्तीम् ॥ ३॥
तत्रेति । तत्र शक्रप्रस्थे क्रीडन् अर्जुनेन सह मृगयां गच्छन् तां सूर्यपुत्रीं
कालिन्दीम् । तदैव खाण्डवेन प्रीणितस्तपितोऽग्निये॑न । भ्रातृभ्यां विन्दानुविन्दा
भ्यां तद्वरणप्रतिषेधात् त्रस्तां राज्ञां मध्ये स्वयंवरे ज ( हि)षे हृतवान् ॥ ३ ॥
सत्यां गत्वा पुनरुद्रवहो नग्नजिन्नन्दनां तां
बद्ध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् ।
भद्रां नाम मददुरथ ते देव! सन्तईनाद्या-
स्तत्सोदय वरद! भवतः सापि पैतृष्वसेयी ॥ ४ ॥
सत्यामिति । पुनर्नग्नजिन्नृपते राजधानीं गत्वा आत्मानं सप्तधा कृत्वा
सप्त वृषवरान् बद्ध्वा तन्नन्दनां सत्याम् उदवहः । तत्सोदय सन्तर्दनादिसोदरीं
श्रुतकीर्तेः सुतां भद्रां ते तत्सोदराः ते तुभ्यं प्रददुः । पैतृष्वसेयी व पुदेवसोदर्या:
पुत्री ॥ ४ ॥
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् ।
अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये
शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ५ ॥
१. 'र्या' घ. ङ. च. पाठ:. २. 'क्ष्म' घ. पाठ:.
+ इकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहे वा' इति ।