This page has been fully proofread once and needs a second look.

२७६
 
नारायणीये
 
तत्र क्रुद्धं वलमनुनयन् प्रत्यगास्तेन सार्धं
 

शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ २ ॥
 

 
भद्रामिति । भद्रां सुभद्रां भवतोऽवरजां कनीयसीम् । कुहनामस्करी

कपटयतिः । तत्र सुभद्राहरणे । तेन अर्जुनेन सार्धम् । प्रत्यगाः गतवान् ॥ २ ॥
 

 
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहत्विा
 

तां कालिन्द्रींदीं नगरमगमः खाण्डवप्रीणिताग्निः ।

भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं

राज्ञां मध्ये सपादपदिहू
 
<flag>ह्रि</flag>षे[ स्कन्धः - १०
 
^+] मित्रविन्दामवन्तीम् ॥ ३॥
 

 
तत्रेति । तत्र शक्रप्रस्थे क्रीडन् अर्जुनेन सह मृगयां गच्छन् तां सूर्यपुत्रीं

कालिन्दीम् । तदैव खाण्डवेन प्रीणितस्तर्पितोऽग्निये॑र्येन । भ्रातृभ्यां विन्दानुविन्दा
-
भ्यां तद्वरणप्रतिषेधात् त्रस्तां राज्ञां मध्ये स्वयंवरे ज ( हिहृ?ह्रि)षे हृतवान् ॥ ३ ॥
 

 
सत्यां गत्वा पुनरुद्रवहो नग्नजिन्नन्दनां तां

बद्ध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् ।

भद्रां नाम मददुरथ ते देव! सन्तर्दनाद्या-

स्तत्सोदर्यां[^१] वरद! भवतः सापि पैतृष्वसेयी ॥ ४ ॥
 

 
सत्यामिति । पुनर्नग्नजिन्नृपते राजधानीं गत्वा आत्मानं सप्तधा कृत्वा

सप्त वृषवरान् बद्ध्वा तन्नन्दनां सत्याम् उदवहः । तत्सोदर्यां सन्तर्दनादिसोदरीं

श्रुतकीर्तेः सुतां भद्रां ते तत्सोदराः ते तुभ्यं प्रददुः । पैतृष्वसेयी व पुदेवसोदर्या:

पुत्री ॥ ४ ॥
 

 
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
 

लक्षं छित्वा शफरमवृथा लक्ष[^२]णां मद्रकन्याम् ।

अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये
 

शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ५ ॥
 

 
[^
]. 'र्या' घ. ङ. च. पाठ:. ठः
[^
]. 'क्ष्म' घ. पाठ:.
 
ठः
 
[^
+] इकाररेफसंयोगे पाक्षिकं लघुत्वं ह्रस्वस्य 'प्रहेह्रे वा' इति ।