This page has not been fully proofread.

१४
 
नारायणीये
 
[स्कन्धः - १
 
स्वकर्मभिर्देवान् प्रसाद्य स्वर्गे गतानां पुरत एव सन्निधत्ते । किञ्च, अजस्रम् इहा-
मुत्रे च तैर्भक्तैः अनभ्यर्थितान् कामान् अभीष्टान् अर्थान् पुरुषार्थान् वितरति
ददाति। अन्यस्त्वनभ्यर्थितान् न ददाति, न च सर्वान् कामान्, न चाजस्रं, किन्तु
अमुत्रैवाभ्यर्थितेषु कांश्चिदेवार्थान् ददाति । अपिच अकामनया ये सेवन्ते, तेभ्यः
परमानन्दसान्द्रां गतिं मोक्षं च ददाति । अन्यस्तु सकामेभ्योऽकामेभ्यो वा मोक्षं
न ददाति । एवं निश्शेषलभ्यः सकलजीवनिवहैः प्राप्यस्त्वदात्मकः पारिजातः नि-
रवधिकफलः अपरिच्छिन्नमोक्षाख्यफलप्रदः । अन्यस्तु परिच्छिन्नफलप्रदः ।
एवं त्वदात्मके पारिजाते तिष्ठति अयमर्थित्रजः कामिसमूहः व्यर्थं वृथैव क्षुद्रम्
असारं तं मुधा पारिजातशब्दवाच्यं शक्रवाटीद्रुमम् इन्द्रोद्यानवृक्षम् अभि
लषति बहुक्लेशेन प्राप्तुमिच्छतीत्यर्थः ॥ ८ ॥
 
ननु ब्रह्मरुद्रादयोऽपीश्वरत्वसाम्याद् भक्ताभीष्टफलदाः । अतस्तेऽपि सेव्या
इत्याशङ्कय भगवतस्तेभ्यो विशेषमाह -
 
कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
दैश्वर्यादीशतेऽन्ये जगति परेंजने स्वात्मनोऽपीश्वरस्त्वम् ।
त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्या-
स्त्वं चात्माराम एवेत्यतुलगुणगणाधार ! शौरे ! नमस्ते ॥ ९ ॥
 
कारुण्यादिति । परे ब्रह्मादयः । कारुण्याद् भक्तवत्सलतया। अन्यं मोक्षा-
व्यतिरिक्तं कामं वरं ददति । त्वं विशेषाद् विशिष्टाद् ब्रह्माद्यतिशयितात् कारु-
ण्यात् स्वात्मदः स्वात्मानं स्वरूपं मोक्षमपि ददासीत्यर्थः । किञ्च, अन्ये ब्रह्मादयः
ऐश्वर्याद् जगति अस्मिन् प्रपञ्चे परजने स्वव्यतिरिक्तेषु स्थिरचरेष्वेव ईशते
निग्रहीतुमनुग्रहीतुं वा शक्ता भवन्ति । त्वं तु स्वात्मनः स्वरूपस्य ब्रह्मणोऽपीश्वरः ।
स्वात्मानमेव जीवरूपेण संसारार्णवे निक्षिप्य निग्रहीतुं, तत्समकालमेव स्वानन्दानुभ-
वपदे (सं) स्थाप्यानुग्रहीतुमपि शक्तो भवसीत्यर्थः । ननु सेवकानां स्वात्मदाने किं फल-
मित्याशङ्कय भगवतः स्वस्यैव फलरूपतां दर्शयति – त्वयीति । त्वायै ब्रह्माण। स्फी-
१. 'त्रापि तै' क. पाठः. २. 'न् न' ख. पाठः, ३. 'भ्य एव । न मोक्षं द' ख. पाठः,
४. 'रि' क, पाठः, ५. 'यि स्फी' क. पाठः