This page has not been fully proofread.

१४
 
नारायणीये
 
[स्कन्धः - १
 
स्वकर्मभिर्देवान् प्रसाद्य स्वर्गेगं गतानां पुरत एव सन्निधत्ते । किञ्च, अजस्रम् इहा-

मुत्रेर[^१] च तैर्भक्तैः अनभ्यर्थितान् कामान् अभीष्टान् अर्थान् पुरुषार्थान् वितरति

ददाति। अन्यस्त्वनभ्यर्थितान् न ददाति, न च सर्वान्[^२] कामान्, न चाजस्रं, किन्तु

अमुत्रैवाभ्यर्थितेषु कांश्चिदेवार्थान् ददाति । अपिच अकामनया ये सेवन्ते, तेभ्यः

परमानन्दसान्द्रां गतिं मोक्षं च ददाति । अन्यस्तु सकामे[^३]भ्योऽकामेभ्योऽकामेभ्यो वा मोक्षं

न ददाति । एवं निश्शेषलभ्यः सकलजीवनिवहैः प्राप्यस्त्वदात्मकः पारिजातः नि-

रवधिकफलः अपरिच्छिन्नमोक्षाख्यफलप्रदः । अन्यस्तु परिच्छिन्नफलप्रदः ।

एवं त्वदात्मके पारिजाते तिष्ठति अयमर्थित्व्रजः कामिसमूहः व्यर्थं वृथैव क्षुद्रम्

असारं तं मुधा पारिजातशब्दवाच्यं शक्रवाटीद्रुमम् इन्द्रोद्यानवृक्षम् अभि
-
लषति बहुक्लेशेन प्राप्तुमिच्छतीत्यर्थः ॥ ८ ॥
 

 
ननु ब्रह्मरुद्रादयोऽपीश्वरत्वसाम्याद् भक्ताभीष्टफलदाः । अतस्तेऽपि सेव्या

इत्याशङ्क्य भगवतस्तेभ्यो विशेषमाह -
 
--
 
कारुण्यात् काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-

दैश्वर्यादीशतेऽन्ये जगति परेंरे[^४]जने स्वात्मनोऽपीश्वरस्त्वम् ।

त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्या-

स्त्वं चात्माराम एवेत्यतुलगुणगणाधार ! शौरे ! नमस्ते ॥ ९ ॥
 

 
कारुण्यादिति । परे ब्रह्मादयः । कारुण्याद् भक्तवत्सलतया। अन्यं मोक्षा-

व्यतिरिक्तं कामं वरं ददति । त्वं विशेषाद् विशिष्टाद् ब्रह्माद्यतिशयितात् कारु-

ण्यात् स्वात्मदः स्वात्मानं स्वरूपं मोक्षमपि ददासीत्यर्थः । किञ्च, अन्ये ब्रह्मादयः

ऐश्वर्याद् जगति अस्मिन् प्रपञ्चे परजने स्वव्यतिरिक्तेषु स्थिरचरेष्वेव ईशते

निग्रहीतुमनुग्रहीतुं वा शक्ता भवन्ति । त्वं तु स्वात्मनः स्वरूपस्य ब्रह्मणोऽपीश्वरः ।

स्वात्मानमेव जीवरूपेण संसारार्णवे निक्षिप्य निग्रहीतुं, तत्समकालमेव स्वानन्दानुभ-

वपदे (सं) स्थाप्यानुग्रहीतुमपि शक्तो भवसीत्यर्थः । ननु सेवकानां स्वात्मदाने किं फल-

मित्याशङ्क्य भगवतः स्वस्यैव फलरूपतां दर्शयति--त्वयीति । त्वायैवयि[^५] ब्रह्माणमणि। स्फी-

 
[^
]. 'त्रापि तै' क. पाठः.
[^
]. 'न् न' ख. पाठः, .
[^
]. 'भ्य एव । न मोक्षं द' ख. पाठः,
.
[^
]. 'रि' क, पाठः, .
[^
]. 'यि स्फी' क. पाठः
 
.