2023-04-26 12:07:04 by Padmavati
This page has been fully proofread once and needs a second look.
नारायणीये
सत्राजितं शतधनुर्मणिमाजहार ॥ ७ ॥
व्रीडाकुलामिति । जतुगेहे कौन्तेया दग्धा इति कथा लोकवादः, तया
त्वयि कुरून् हस्तिनपुरं प्रयाते सति हो कष्टं गान्दिनेयस्य अक्रूर
णश्च प्रतिश्रुतस्यादातारं जहीति गिरा शतधन्वा सत्राजितं निपात्य हत्
जहार ॥ ७ ॥
शोकात् कुरूनुपगतामवलोक्य कान्तां
हत्वा द्रुतं शतधनुं समहर्षियस्ताम् ।
रत्ने सशङ्क इव मैथिलगे
रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ ८ ॥
शङ्कास्य
द्वाभ्याम्---
[स्कन्ध: - १०
शोकादिति[^२] । तां सत्यभामां पितृहन्तुर्वधेन समहर्षयः प्रसादितवान् ।
रत्ने मणौ सशङ्क इव मणिहेतोः शतधन्वानं निहतवानिति ख्यापयितुं तद्वाससि
मणिमन्विष्टवानित्यर्थः।'त्वं पुरीं गत्वा मणिमन्विच्छे'ति कृष्णमुक्त्वा रामो मैथि-
लस्य गेहमेत्य धार्तराष्ट्रं सुयोधनं गदां समशिशिक्षत ॥ ८ ॥
नन्वक्रूरो भक्तः कथं सत्यभामायाः पितरं हन्तुं शतधन्वानं नियुक्तवानित्या-
शङ्क्यास्य भक्तम्मन्यताग
द्वाभ्याम्--
अक्रूर ए
सत्राजितः कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिमनाहृतवान् पुनस्त्वं
तस्यैव भूतिमुपधातुमिति ध्रुवन्ति ॥ ९ ॥
अकूर इति । अक्रूरतः शतधन्वना श्रीकृष्णभीत्या पलायने सति न्यस्तं
मणिं त्वमनाहृतवान् । तस्याक्रूरस्य भूतिम् ऐश्वर्यम् उपधातुम् उत्पादयितुमिति
ब्रुवन्ति । अभिज्ञा इति शेषः ॥ ९ ॥
[^१]. 'त्वा ॥' क. पाठः
[^२]. 'ति । मणि' क. पाठ