This page has not been fully proofread.

दशकम् - ८०]
 
स्यमन्तकोपाख्यानम् ।
 
भवन्तमिति । अतिवयाः वृद्धः अत एव भवन्तं श्रीकृष्णात्मनावतीर्णम्
अवितर्कयन् अनिरूपयन् मुकुन्दो विष्णुः शरणं यस्य तं मां रोद्धुम् इह जग-
ति कः शक्तः विभो! हरे! रघुपते! जय जय स्वोत्कर्षमाविष्कुर्वित्यालपन् मन्त्र-
मिव पुनः पुनर्जपन् चरन् प्रदक्षिणं कुर्वन्निव द्वन्द्वयुद्धमार्गे सञ्चरन् मुष्टिभिः
कुसुमैरिव तव स्वस्वामिनः समर्चनं सम्यक् संरम्भात्मकभक्ति पुरस्सरं पूजां व्याधित
प्रसादयामास, यतोऽयं भक्तचूडामणिः त्वत्प्रीत्यै कृतसकलकर्मा ॥ ४ ॥
 
2
 
बुढाथ तेन दत्तां नवरमणीं वरमणीं च परिगृहन् ।
अनुगृहन्नमुमागाः सपदि च सत्राजिते मणि मादाः ॥ ५ ॥
 
बुद्ध्वेति । अथ बुद्ध्वा त्वन्मुष्टिपातेन सञ्जातव्यथतया त्वां पुराणपुरुषं
ज्ञात्वा स्वापराधमार्जनाय तेन जाम्बवता दत्तां नवाम् अप्रौढां रमणीं जाम्बवतीं
वरमणीं स्यमन्तकं च परिगृह्णन् अनुं भक्तम् अनुगृह्णन् पाणिपद्मेन प्रत्यङ्गमभिमृ-
श्यापनीताखिलपरितापं कुर्वन् द्वारकामागाः । सपदि आगमनानन्तरमेव सत्राजि-
ते मणि तत्प्राप्त्याख्यानपूर्वकं प्रादाः दत्तवान् ॥ ५ ॥
 
तदनु स खलु वीडालोलो विलोलविलोचनां
दुहितरमहो धीमान् भामां गिरैव परार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
प्रमुदितमनास्तस्यैवादान्मणि गहनाशयः ॥ ६ ॥
 
तदन्विति । स खलु सत्राजित् सत्यभामाख्यं स्त्रीरलं रत्नमपि श्रीकृष्णाय
दत्त्वा आत्मापराधं प्रमाजमति शुभा धीरस्यास्तीति धीमान् गिरैव, न क्रियया
पराय शतधन्वने अर्पितां प्रतिश्रुताम् मणिना सह तुभ्यम् अदित दत्तवान् । भवा-
नपि मणेर्लभ्यं स्वर्णभाराष्टकं समेत्य दातव्यमिति समयपूर्वकं प्राप्य तस्य सत्रा-
जित एव मणिमदात् । किमर्थं गहनाशयः भूयोऽप्यस्य मणिहेतुकामापदं विधातुं
वान्यत् किञ्चिद्वेति देवैरप्यविदित आशयोऽभिप्रायो यस्य ॥ ६ ॥
 
व्रीडाकुलां रमयति त्वयि सत्यभामां
कौन्तेयदाहकथयाथ कुरून् प्रयाते ।
 
२७३
 
१. 'र्मा इति ॥' क. ग. पाठ:
 
४. 'तुमित्यवि' क. ख. पाठः,
 
२. 'र्णि' ग. ङ. च. पाठः, ३. 'र्णि' ख. पाठ:.