This page has been fully proofread once and needs a second look.

दशकम् - ८०]
 
स्यमन्तकोपाख्यानम् ।
 
भवन्तमिति । अतिवयाः वृद्धः अत एव भवन्तं श्रीकृष्णात्मनावतीर्णम्

अवितर्कयन् अनिरूपयन् मुकुन्दो विष्णुः शरणं यस्य तं मां रोद्धुम् इह जग-

ति कः शक्तः विभो! हरे! रघुपते! जय जय स्वोत्कर्षमाविष्कुर्वित्यालपन् मन्त्र-

मिव पुनः पुनर्जपन् चरन् प्रदक्षिणं कुर्वन्निव द्वन्द्वयुद्धमार्गे सञ्चरन् मुष्टिभिः

कुसुमैरिव तव स्वस्वामिनः समर्चनं सम्यक् संरम्भात्मकभक्ति पुरस्सरं पूजां व्याधित

प्रसादयामास, यतोऽयं भक्तचूडामणिः त्वत्प्रीत्यै कृतसकलकर्मा[^१] ॥ ४ ॥
 
2
 

 
बुढाद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं[^२] च परिगृह्णन् ।

अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणि माणिं प्रादाः ॥ ५ ॥
 

 
बुद्ध्वेति । अथ बुद्ध्वा त्वन्मुष्टिपातेन सञ्जातव्यथतया त्वां पुराणपुरुषं

ज्ञात्वा स्वापराधमार्जनाय तेन जाम्बवता दत्तां नवाम् अप्रौढां रमणीं जाम्बवतीं

वरमणीं[^३] स्यमन्तकं च परिगृह्णन् अनुंमुं भक्तम् अनुगृह्णन् पाणिपद्मेन प्रत्यङ्गमभिमृ-

श्यापनीताखिलपरितापं कुर्वन् द्वारकामागाःणाः । सपदि आगमनानन्तरमेव सत्राजि-

ते मणिणिं तत्प्राप्त्याख्यानपूर्वकं प्रादाः दत्तवान् ॥ ५ ॥
 

 
तदनु स खलु वीव्रीडालोलो विलोलविलोचनां

दुहितरमहो धीमान् भामां गिरैव परार्पिताम् ।

अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि

प्रमुदितमनास्तस्यैवादान्मणिणिं गहनाशयः ॥ ६ ॥
 

 
तदन्विति । स खलु सत्राजित् सत्यभामाख्यं स्त्रीरलंत्नं रत्नमपि श्रीकृष्णाय

दत्त्वा आत्मापराधं प्रमाजमर्ज्मीति शुभा धीरस्यास्तीति धीमान् गिरैव, न क्रियया

पराय शतधन्वने अर्पितां प्रतिश्रुताम् मणिना सह तुभ्यम् अदित दत्तवान् । भवा-

नपि मणेर्लभ्यं स्वर्णभाराष्टकं समेत्य दातव्यमिति समयपूर्वकं प्राप्य तस्य सत्रा-

जित एव मणिमदात् । किमर्थं गहनाशयः भूयोऽप्यस्य मणिहेतुकामापदं विधातुं
[^४]
वान्यत् किञ्चिद्वेति देवैरप्यविदित आशयोऽभिप्रायो यस्य ॥ ६ ॥
 

 
व्रीडाकुलां रमयति त्वयि सत्यभामां

कौन्तेयदाहकथयाथ कुरून् प्रयाते ।
 
२७३
 

 
[^
]. 'र्मा इति ॥' क. ग. पाठ:
 
ठः
[^२]. 'णिं' ग. ङ. च. पाठः
[^३]. 'णिं' ख. पाठः
[^
]. 'तुमित्यवि' क. ख. पाठः,
 
२. 'र्णि' ग. ङ. च. पाठः, ३. 'र्णि' ख. पाठ:.