2023-02-16 08:52:37 by ambuda-bot
This page has not been fully proofread.
२७२
नारायणीये
सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
दिव्यं स्यमन्तकमणि भगवन्नयाचीः ।
तत्कारणं बहुविधं मम भाति नूनं
तस्यात्मजां त्वयि रतां छलतो विवोदुम् ॥ १ ॥
सत्राजित इति । तस्य स्यमन्तकयाचनस्य कारणं जाम्बवदनुग्रहतत्सुता-
बाप्तिसत्यभामादातृप्रतिग्रहीतृसत्राजिच्छतधन्ववधाक्रूरप्रीत्यापादनादिरूपं बहुविधं
मम भाति प्रतिभाति । नूनम् एवं तु निश्चिनोमि । तस्य सत्राजित आत्मजां
त्वयि रतां सत्यभामां छलतो व्याजेन विवोढुं विवाहार्थम् । खापराधभीरुणानि-
च्छतापि स्वसुतां दापयितुमित्यर्थः ॥ १ ॥
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
प्रसेनस्तदभ्राता गलभुवि वहन प्राप मृगयाम् ।
अन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
कपीन्द्रस्तं हत्वा मणिमपि च वालाय ददिवान् ॥ २ ॥
अदत्तमिति । कपीन्द्रो जाम्बवान् ॥ २ ॥
शशंसुः सत्राजिगिरमनु जनास्त्वां मणिहरं
जनानां पीग्रूपं भवति गुणिनां दोपकणिका ।
ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ३ ॥
[स्कन्धः - १०
शशंसुरिति । कृष्णो मे भ्रातरं हत्वा मणि हृतवानिति सत्राजिद्गिर-
मनु तच्छ्रुत्वा जनाः प्रामणियाचनात् तव मणिजिवृक्षामप्युत्पश्यन्तस्त्वां मणिहरं
शशंसुः । गुणिनां दोषकणिका दोषलेशोऽपि जनानां पीयूषवदाखादनीया भवति
हि । हरिं सिंहमपि दृष्ट्वा कपेर्जाम्बवतो गुहाम् ॥ ३ ॥
भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्
मुकुन्दशरणं हि मां क इह रोमित्यालपन् ।
विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि-
च॑रंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥ ४ ॥
१. 'श्चिरं त' ग घ ङ. पाठ: