This page has been fully proofread once and needs a second look.

२७२
 
नारायणीये
 
सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
 

दिव्यं स्यमन्तकमणिणिं भगवन्नयाचीः ।

तत्कारणं बहुविधं मम भाति नूनं
 

तस्यात्मजां त्वयि रतां छलतो विवोदुबोढुम् ॥ १ ॥
 

 
सत्राजित इति । तस्य स्यमन्तकयाचनस्य कारणं जाम्बवदनुग्रहतत्सुता-
बा

वा
प्तिसत्यभामादातृप्रतिग्रहीतृसत्राजिच्छतधन्ववधाक्रूरप्रीत्यापादनादिरूपं बहुविधं

मम भाति प्रतिभाति । नूनम् एवं तु निश्चिनोमि । तस्य सत्राजित आत्मजां

त्वयि रतां सत्यभामां छलतो व्याजेन विवोबोढुं विवाहार्थम् । खापराधभीरुणानि-

च्छतापि स्वसुतां दापयितुमित्यर्थः ॥ १ ॥
 

 
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा

प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।

न्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
 

कपीन्द्रस्तं हत्वा मणिमपि च वालाय ददिवान् ॥ २ ॥
 

 
अदत्तमिति । कपीन्द्रो जाम्बवान् ॥ २ ॥
 

 
शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं

जनानां पीग्रूपंयूषं भवति गुणिनां दोकणिका ।

ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
 

प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ३ ॥
 
[स्कन्धः - १०
 

 
शशंसुरिति । कृष्णो मे भ्रातरं हत्वा मणिणिं हृतवानिति सत्राजिद्गिर-

मनु तच्छ्रुत्वा जनाः प्राङ्मणियाचनात् तव मणिजिवृघृक्षामप्युत्पश्यन्तस्त्वां मणिहरं

शशंसुः । गुणिनां दोषकणिका दोषलेशोऽपि जनानां पीयूषवदाखास्वादनीया भवति

हि । हरिं सिंहमपि दृष्ट्वा कपेर्जाम्बवतो गुहाम् ॥ ३ ॥
 

 
भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्

मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् ।

विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि-
च॑

श्च[^१]
रंस्तव समर्चनं व्यधित भक्तचूडामणिः ॥ ४ ॥
 

 
[^
]. 'श्चिरं त' ग.. ङ. पाठ:
 
ठः