This page has not been fully proofread.

दशकम् - ७९]
 
रुक्मिणीपरिणयवर्णनम् ।
 
२७१
 
क्व नु गतः पशुपाल इति क्रुषा कृतरणा यदुभिश्च जिता नृपाः ।
न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ ८ ॥
 
क्व नु गत इति । कृतो रणो यैः ते नृपाः यदुभिर्जिताः पराजिताः । तैः
पिशुनकैः दुर्जनैः भवान् न तूदचाल्यत तान् भवान् नाजीगणदित्यर्थः । शुनकैः
श्वभिः केसरीव ॥ ८॥
 
तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निवथ्य विरूपयन् ।
हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ ९ ॥
 
तदन्विति । रुक्मिणं विरूपयन् वपनादिना विरूपं कुर्वन् बलोक्तिभिः
अग्रजवचनैः परिमुच्य विगलितबन्धनं कृत्वा रमया कान्तया सह पुरमया:
प्राप्तवान् ॥ ९ ॥
 
नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् ।
अरमयः खलु नाथ ! यथासुखं रहसि तां हसितांशुलसन्मुखम् ॥१०॥
नवसमागमेति । हसितांशुभिर्लसन्मुखीं तां रहस्यरमयः ॥ १० ॥
 
विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा ।
ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥ ११ ॥
विविधनर्मभिरिति । प्रमदं हर्षमाकलयन् जनयन् । बऋगिरा वक्रो-
तथा ऋजुमतेः रुक्मिण्याः अतिलोलतां परवशतामतनोत् ॥ ११ ॥
 
तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रंमयन्निमाम् ।
अयि मुकुन्द ! भवच्चरितानि नः प्रगदतां गढ़तान्तिमपाकुरु ॥ १२ ॥
तदधिकैरिति । प्रगदतां स्तुवतां गदतान्ति रोगपीडाम् अपाकुरु ॥१२॥
इति रुक्मिणीपरिणयवर्णनम् एकोनाशीतितमं दशकं सद्विकम् ।
 
१. 'हि' घ ङ. पाठः. २. 'सुखय' ग. घ. ङ. च. पाठः,