2023-04-26 11:32:06 by Padmavati
This page has been fully proofread once and needs a second look.
रुक्मिणीपरिणयवर्णनम् ।
२७१
न तु[^१] भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ ८ ॥
क्व नु गत इति । कृतो रणो यैः ते नृपाः यदुभिर्जिताः पराजिताः । तैः
पिशुनकैः दुर्जनैः भवान् न तूदचाल्यत, तान् भवान् नाजीगणदित्यर्थः । शुनकैः
श्वभिः केसरीव ॥ ८॥
तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निव
हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ ९ ॥
तदन्विति । रुक्मिणं विरूपयन् वपनादिना विरूपं कुर्वन् बलोक्तिभिः
अग्रजवचनैः परिमुच्य विगलितबन्धनं कृत्वा रमया कान्तया सह पुरमया:
प्राप्तवान् ॥ ९ ॥
नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् ।
अरमयः खलु नाथ ! यथासुखं रहसि तां हसितांशुलसन्मु
नवसमागमेति । हसितांशुभिर्लसन्मुखीं तां रहस्यरमयः ॥ १० ॥
विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा ।
ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥ ११ ॥
विविधनर्मभिरिति । प्रमदं हर्षमाकलयन् जनयन् ।
तथा
क्त्या ऋजुमतेः रुक्मिण्याः अतिलोलतां परवशतामतनोत् ॥ ११ ॥
तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं
अयि मुकुन्द ! भवच्चरितानि नः प्रगदतां ग
तदधिकैरिति । प्रगदतां स्तुवतां गदतान्
इति रुक्मिणीपरिणयवर्णनम् एकोनाशीतितमं दशकं सद्विकम् ।
१
[^१]. 'हि' घ. ङ. पाठः
[^२]. 'सुखय' ग. घ. ङ. च. पाठः