2023-02-16 08:52:36 by ambuda-bot
This page has not been fully proofread.
नारायणीये
[स्कन्धः – १०
भुवनेति । नृपसुतस्य रुक्मिणः चेष्टितं शिशुपालाय कन्यां साधयितुमुद्यमं
रुक्मिण्याः सदृशं भवद्वपुश्चावेक्ष्य सरुदितैरुदितैः प्रलापैः ॥ २ ॥
२७०
तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा ।
निरगमद् भवदर्पितजीविता स्वपुरतः पुरतः सुभाता ॥ ३ ॥
तदन्विति । स्वपुरतः स्वस्य पुरात् । पुरतः पुरोभागे ॥ ३ ॥
कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् ।
मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तब केवलम् ॥ ४ ॥
कुलेति । कुलबधूभिः मङ्गलस्त्रीभिः सहोपेत्य तत्पदपङ्कजे गिरिसुतापदप-
ङ्कजे निपतिता केवलं तैव पतितां श्रीकृष्णो मे पतिर्भूयादिति मुहुरयाचत ॥ ४ ॥
समवलोक्य कुतूहलस ड्कुले नृपकुले निभृतं खाय च स्थिते ।
नृपसुता निरगाद् गिरिजालयात सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ ५ ॥
समिति। त्वयि च निभृतं स्थिते तां हर्तुं रन्ध्रं प्रतीक्ष्य गूढं स्थिते सति ।
रुच्या रञ्जितानि दिङ्मुखानि यया ॥ ५ ॥
भुवनमोहनरूपरूचा तदा विवशिताखिलराजकदम्बया ।
त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ ६ ॥
भुवनेति । विवाशतः परवशीकृतः अखिलराजकदम्बो यया तया प्रमदया
रुक्मिण्या त्वमपि मनाग् ईषद् मयाञ्चकृषे सञ्जातमदः कृतः ॥ ६ ॥
क्क तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् ।
समधिरोग्य रथं त्वमपाथा भुवि ततो विततो निनदो द्विषाम् ॥ ७ ॥
क्व नु गमिष्यसीति । अपहृथाः अपहृतवान् ॥ ७॥
१. 'ते प' क. पाठ:.