This page has not been fully proofread.

दशकम् - ७९]
 
रुक्मिणीपरिणयवर्णनम् ।
 
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।
इति गिरा सुतनोरतनोद भृशं सुहृदयं हृदयं तव कातरम् ॥ ८ ॥
अशरणामिति । अयं द्विजः इति सुतनो रुक्मिण्या गिरा तव हृदयं भृशं
कातरं प्रियतमाप्राणापायभीरु अतनोत् ॥ ८ ॥
 
अकथयस्त्वमथैनमये सखे ! तदधिका मम मन्मथवेदना ।
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ९ ॥
 
अकथय इति । तद्धिका रुक्मिण्या अधिका । तत् तस्माद् अयि सखे!
नृपसमक्षं पश्यतां नृपाणां तां दयितां हरामि ॥ ९ ॥
 
२६९
 
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ॥१०॥
 
प्रमुदितेनेति । त्वद्वचनश्रवणेन प्रमुदितेन तेन द्विजेन समं सह रथे गतः
लघु शीघ्रम् एयिवान् गतवान् भवान् । तनुतां न्यूनतां वितनुतां कुरुताम् ॥१०॥
इति द्वारकावासवर्णनं रुक्मिणीपरिणये भगवतः कुण्डिनपुरप्राप्तिवर्णनं च
अष्टसप्ततितमं दशकम् ।
 
वलसमेतबलानुगतों भवान् पुरमगाहत भीष्मकमानितः ।
द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ १ ॥
 
बलेति । कलहशङ्किना बलसमेतेन सेनासहितेन श्रीबलभद्रेणानुगतः
भीष्मकेण रुक्मिण्या जनकेन मानितः पूजितः । अगाहत प्रविवेश । त्वदुपागमवा-
दिनं प्राप्तस्त्वद्दयित इति निवेदयन्तम् । धृतरसा सञ्जातकौतुका तरसा प्रणनाम,
नान्यत् किञ्चिद् दत्तवती । सा श्रियोंऽशभूता नमस्कारेण स्वात्मानं समग्रां
श्रियमर्पितवती ॥ १ ॥
 
भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।
विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ २ ॥