This page has not been fully proofread.

२६८
 
नारायणीये
 
[स्कन्धः - १०
 
अथ विदर्भसुतां खलु रुक्मिणी प्रणयिनीं त्वयि देव! सहोदरः ।
स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ३ ॥
 
अथेति । सहोदरो रुक्मी । स्वयं, नान्ये पित्रादयः, चेदिमहीभुजे शिशु-
पालाय अदित्सत दातुमैच्छत् । स्वतमसा स्वाज्ञानेन तमसाधुं चेदिनृपम्
 
उपाश्रयन् ॥ ३ ॥
 
चिरप्रणया त्वयि वालिका सपदि काङ्क्षितभङ्गसमाकुला ।
तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥ ४ ॥
चिरेति । कद्रनङ्गेन विनिर्मितं स्वस्य कदनं पीडाम् ॥ ४ ॥
 
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।
मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ५ ॥
 
द्विजेति । दुराशदुरासदं हि दुष्टाशयैरेव दुष्प्रवेशम् । भवतापं संसारदुःखं
हरतीति भवतापहृत् ॥ ५ ॥
 
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
खयि समुत्सुकया निजधीरतारहितया हि तया महितोऽस्म्यहम् ॥ ६ ॥
स चेति । कुण्डिने विदर्भपुरे । तथा प्रहितोऽस्मि ॥ ६ ॥
 
रुक्मिण्याः सन्देशमाह द्वाभ्यां -
 
तव हतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
अयि कृपालय! पालय मामिति प्रजगढ़े जगदेकपते ! तया ॥ ७ ॥
 
तवेति । गुणैः पाशस्थानीयैस्तव भक्तवात्सल्यादिगुणैः अहं पुरा स्वयंत्र-
रप्रसङ्गात् प्रागेव । अधुना स्वयंवरे चेदिनृपः शिशुपाल: मां त्वद्धृतमनसं
हरति हर्तुमुत्सहते किल । अयि कृपालय ! भक्तवत्सल ! मां पालय शरीरमपि
हृत्वा मनसा संयोजयेति तथा प्रजगदे ॥ ७ ॥
 
१. 'प्रापम् ।' क. ग. पाठ:.