This page has been fully proofread once and needs a second look.

२६८
 
नारायणीये
 
[स्कन्धः - १०
 
अथ विदर्भसुतां खलु रुक्मिणी प्रणयिनीं त्वयि देव! सहोदरः ।

स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ३ ॥
 

 
अथेति । सहोदरो रुक्मी । स्वयं, नान्ये पित्रादयः, चेदिमहीभुजे शिशु-

पालाय अदित्सत दातुमैच्छत् । स्वतमसा स्वाज्ञानेन तमसाधुं चेदिनृपम्
 

उपाश्रयन् ॥ ३ ॥
 

 
चिरधृतप्रणया त्वयि वाबालिका सपदि काङ्क्षितभङ्गसमाकुला ।

तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् ॥ ४ ॥

 
चिरेति । कद्रनङ्गेन विनिर्मितं स्वस्य कदनं पीडाम् ॥ ४ ॥
 

 
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् ।

मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ५ ॥
 

 
द्विजेति । दुराशदुरासदं हि दुष्टाशयैरेव दुष्प्र[^१]वेशम् । भवतापं संसारदुःखं

हरतीति भवतापहृत् ॥ ५ ॥
 

 
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।

त्व
यि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ ६ ॥

 
स चेति । कुण्डिने विदर्भपुरे । तथाया प्रहितोऽस्मि ॥ ६ ॥
 

 
रुक्मिण्याः सन्देशमाह द्वाभ्यां -
 
तव ह
-
 
तव हृ
तास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।

अयि कृपालय! पालय मामिति प्रजगढ़ेदे जगदेकपते ! तया ॥ ७ ॥
 

 
तवेति । गुणैः पाशस्थानीयैस्तव भक्तवात्सल्यादिगुणैः अहं पुरा स्वयंत्र-

रप्रसङ्गात् प्रागेव । अधुना स्वयंवरे चेदिनृपः शिशुपाल: मां त्वद्धृतमनसं

हरति हर्तुमुत्सहते किल । अयि कृपालय ! भक्तवत्सल ! मां पालय शरीरमपि

हृत्वा मनसा संयोजयेति तथाया प्रजगदे ॥ ७ ॥
 

 
[^
]. 'ष्प्रापम् ।' क. ग. पाठ:.
 
ठः